________________ COACARECRUARCLEAR वर्धमानां वृद्धिमुपगच्छन्तीं / परमर्षयः परमाश्च ते ऋषयश्च मुनीश्वराः / अध्यात्मशास्त्रदात्रेण अध्यात्मशास्त्रमेव दात्रं तपच्छेदकशस्त्रविशेषो लोकप्रसिद्धस्तेन / च्छिन्दन्ति निकृन्तन्ति, तस्य तृष्णादोषदर्शकत्वादित्यर्थः // 16 // अयाध्यात्मशास्त्रस्य कलौ मुर्खत्वमाह वने वेश्म धनं दौःस्थ्ये तेजो ध्वान्ते जलं मरौ। दुरापमाप्यते धन्यैः कलावध्यात्मवाड्मयम् 17 | वन इति-कलौ जीवानामतिक्लेशकारकत्वात् कलिः पञ्चमारकस्तस्मिन् / अध्यात्मवाङमयं अध्यात्मप्रतिपादकं यथाङमयं शास्त्रं तत् / पुरापं दुःखेनाप्यते लन्यते यत्तत्तथा / तथा सत्यपि धन्यै ग्यवभिः। श्राप्यते प्राप्यते / किमिव ? वने निर्मानुष्येऽरण्ये वेश्म सदनमिव / दौःस्थ्ये दुःखेन तिष्ठतीति दुःस्थो दरिजस्तस्य जावो दौःस्थ्य तस्मिन् धनमिव निधानमिव / ध्वान्ते तमसि तेजः प्रकाश इव / मरौ मरुस्थले जलमिव / उर्लजमपि जाग्यवशात्प्राप्यत इत्यर्थः॥१७॥ अथाध्यात्मबोधवर्जितानामन्यशास्त्राध्ययनादिकं कष्टमात्रफल मिति दर्शयन्नाह वेदान्यशास्त्रविक्लेशं रसमध्यात्मशास्त्रवित् / नाग्यजनोगमाप्नोति वहते चन्दनं खरः // 1 // वेदान्येति-वेदान्यशास्त्रवित् वेदा झग्वेदादयः अन्यशास्त्राणि च सांख्यमीमांसादीनि तानि वेत्ति जानाति यः स तथा पुरुषः क्वेशं तदध्ययनादिजन्यखेदमात्रमाप्नोति / यघा "अन्यशास्त्रवित् अन्यानि अध्यात्मशास्त्रव्यतिरिक्तानि शास्त्राणि सांख्यमीमांसादीनि वेत्ति जानातीति अन्यशास्त्रवित् , क्लेशं तदध्ययनादिजन्यखेदमात्रं, वेद अनुजवतीति"। न तु रसास्वादनाहादं / अध्यात्मशास्त्रवित्तु तमुक्तार्थानां हेयानां परिहारेण, उपादेयानां च स्वीकारेण यथावस्थि S