SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंधः अध्यात्म सारः सटीकः // 5 // गतं / तेषामुत्तमाना / कषायविषयावेशक्लेशः कषायाः क्रोधादयः, विषयाः शब्दादिकाः, तेषामावेशः पौनःपुन्यनोदयप्रसंगस्तेन यः क्लेशो विवशता स न कर्दिचित् कदाचिदपि न स्यात् मनइन्धियनियंतृत्वादित्यर्थः॥१४॥ अथाध्यात्मबोधहीनाः कामविडंबनां प्राप्नुवन्तीत्याह निर्दयः कोमचंमालः पंमितानपि पीमयेत्। यदि नाध्यात्मशास्त्रार्थबोधयोधकृपा नवेत् // 15 // निर्दय इति-अध्यात्मशास्त्रार्थबोधयोधकृपा अध्यात्मशास्त्रस्यार्थो वाच्यस्तस्य यो बोधो ज्ञानं विवेको वा स एव योधः शरणागतरक्षणसमर्थः सुनटस्तस्य या कृपा प्रसन्नताप्राप्तिः सा यदि न नवेत् / तदा निर्दयः कामचंडालः निर्गता दया करुणा यस्मात्स तथा / कामस्तु प्रायः पुत्रादिसर्वघातहेतुकत्वेन निष्करुण एवास्तीति निर्दयविशेषणं दत्तं / कामो | मदनो वेदोदयजनितविकार इति यावत् / स एव चंमाखः श्वपाकः, अतिकोपनत्वात् क्रूरत्वात् नीचगामित्वाच्च चंमालोपमा / पंमितानपि पंडिता वेदव्याकरणतर्कादिशास्त्रवेत्तारः तानपि / पीमयेनिमंबयेत् , तहींतरेषां का वार्तेत्यर्थः॥१५॥ अथाध्यात्मबखेन तृष्णाजयः सुकरः स्यादित्याह विषवल्लीसमां तृष्णां वर्धमानां मनोवने / अध्यात्मशास्त्रदात्रेण च्छिन्दन्ति परमर्षयः // 16 // विषवल्लीति-विषवल्लीसमां विष्णाति प्राणान् वियोजयतीति विषं तस्य तद्रूपा वा वल्ली लता तया समा सदृशी प्रजूतमरणोत्पादकत्वात्तथा तां / तृष्णां गृधि / मनोवने मनोऽन्तःकरणं तदेव गंजीर विस्तीर्ण पुलंध्यत्वाचनमरण्यं तस्मिन् / // 5 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy