SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ असिष्प्रयोजनत्वमावेदितुं तावदेकान्तनित्यात्मपद बाधामाहतत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् / हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् // 24 // __तत्रेति-तत्र धर्मसाधनविषये पूर्वोक्तेषु दर्शनानां मतेषु च / येषां नागवतपाशुपतसांख्योपनिषदिकादीनां / आत्मा अतति सततं गत्यपरापरपर्यायानित्यात्मा जीवः / नित्य एव अप्रच्युतानुत्पन्न स्थिरैकस्वजावो यत्तैरुच्यते अस्ति तावन्नित्यशुधबुद्धमुक्तस्वन्नावं सर्वशं सर्वशक्तिसमन्वितं ब्रह्म, न तु पर्यायतयाऽवलंबनेनाप्यनित्य इत्येवंरूपमेकान्तदर्शनमात्मनि सर्वथा एकनित्यपदस्य समर्थनमस्ति / तेषां मते हिंसादयो हिंसाऽहिंसाबन्धमोदादयः / कथं केन प्रकारेण संलवेयुः ? न कथमपीत्यर्थः / कुतः ? यतः तेषां मते कथमपि केनाप्येकेनापि परिणामन / श्रात्मनो जीवस्य / अव्ययात् कदाचिदप्यविनाशात् पूर्वस्वरूपादप्रच्यवनादिति यावत् / न संनवेयुः / यत उक्तं-"तत्पर्यायविनाशो दुःखोत्पादस्तथा च संक्वे-131 शः / एष वधो जिनप्रणीतो वर्जितव्यः प्रयत्नेन // 1 // इति" / एष ईदृशो गायोक्तो वधो नित्यात्मपदे कथमपि न | संजवति ततः कुतो हिंसादयो नवेयुः ? नैव जवेयुरित्यर्थः // 24 // इति श्रुत्वा परो ब्रूतेमनोयोगविशेषस्य ध्वंसो मरणमात्मनः। हिंसा तचेन्न तत्वस्य सिझेरार्थसमाजतः // 25 // __ मनोयोगेति-नो जैन मनोयोगविशेषस्य अहंतामानिमतिप्रकारस्य सुखफुःखज्ञानाधारजूतस्य मनसो व्यापारविशे-| षस्य वा / ध्वंसो विनाशः। श्रात्मनो जीवस्य / मरणं वधः प्रोच्यते, अतो हिंसादयः संजवेयुरिति परोक्तिं श्रुत्वाह-चे
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy