________________ अध्यात्म सटीका 22. बौरिति--बौ?बाघदर्शनसम्मतपुरुषैः / दश दशसंख्याकाः / कुशलधमाः कुशलं कड्याणं तदर्थ ये धर्माः कुशलस्य वा कार्यचतुरस्य प्रोक्ता ये धर्माः साधनविशेषाः / ष्यन्तेऽनिलष्यन्ते / यमुच्यते यद्यस्मात्तैरुच्यते कथ्यते / हिंसास्तेयान्यथाकामं हिंसा प्राणिवधः, स्तेयं चौरिका, अन्यथाकामं अन्यथा पारदारिकादिष्टानिसन्धित्वेन कामं मैथुनसेवनं, एतेषां समाहारपन्छः। पैशुन्यमन्येषां प्रचन्नदोषस्य प्रकटनं / परुषानृतं चेतसा वचसा च कर्कशमनृतं मृषानाषणं // 17 // संजिन्नालापव्यापादं संजिन्नालापः परमर्मजेद्यसंबचनाषणं, व्यापादो मोहचिन्तनं तयोः समाहारचन्दः। अनिध्याग्विपर्ययं अन्निध्या परधन जिहीर्षा, दृग्विपर्ययश्च कुशलधर्मेन्यो विपरीतदृष्टिता तयोः समाहारः / इत्यमुना प्रकारेण / दशधा दशविधं / पापको पापबन्धनाय कर्म किया / कायवाङ्मानसमेनोवाकायैः / त्यजेत्परिहरेदित्यर्थः // 1 // ब्रह्मादिपदवाच्यानि तान्याहुर्वैदिकादयः / अतः सर्वैकवाक्यत्वाधर्मशास्त्रमदोऽर्थकम् // 20 // ब्रह्मादीति-वैदिकादयो वेदेषु कुशला वैदिकास्ते श्रादयो येषां ते वैदिकादयः, आदिपदाऊौमिनिप्रनृतयो ग्राह्याः / तानि पूर्वोक्तान्यहिंसादीनि / ब्रह्मादिपदवाच्यानि शुधब्रह्मपरमब्रह्मलक्ष्यब्रह्मशब्दब्रह्मब्रह्मतत्त्वादितिः पदैः शब्दैवाच्यानि कथनीयानि / आहुः प्रोचुः / अतो नवनिः श्लोकैरुक्तकारणतः / सर्वैकवाक्यत्वात् सर्वेषां धर्मत्वप्रकारेणैकवाक्यताहेतुतः। श्रद एतत् / धर्मशास्त्रं अर्थकं सार्थकं हेतुमदस्तीत्यर्थः॥२०॥ अनन्तरोक्तेषु नवसु श्लोकेषु उक्तधर्मविधायिकत्वात्तेषां शास्त्राणां धर्मशास्त्रत्वं जातं. अत एव परीक्षणीयमित्याहक्क चैतत्संजवो युक्त इति चिन्त्यं महात्मना / शास्त्र परीक्षमाणेनाव्याकुलेनान्तरात्मना // 21 // // 7 //