SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ C चतुर्थप्रबं. अध्यात्म सारः सटीका // 6 // प्रादुर्भागवतास्तत्र व्रतोपव्रतपञ्चकम् / यमांश्च नियमान् पाशुपता धर्मान् दशाज्यधुः // 13 // प्राइरिति-तत्र धर्मप्रकारपरिझाने / जागवता जक्तिमार्गिणः पौराणिकाः / व्रतोपव्रतपञ्चकं व्रतान्यहिंसादीनि, उपव्रतानि च संतोषादीनि तेषां प्रत्येकस्य पञ्चकं / प्रादुः एकत्र मीलने दशसंख्याकानि प्रोच्यन्ते / तथा पाशुपताः पशुपती रुषः स देवता येषां ते नैयायिकाः / यमानहिंसादीन् / नियमांश्चाक्रोधादीन् / दशेति दशसंख्याकान् / धर्मान् अन्यधुः प्रोचुरित्यर्थः॥ 13 // तानेव व्रतोपवतयमनियमतया वाच्यान् घान्यां दर्शयति| अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना / ब्रह्मचर्य तथाऽक्रोधो ह्यार्जवं शौचमेव च // 14 // संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः। निगद्यन्ते यमाः सांख्यैरपि व्यासानुसारिभिः // 15 // | अहिंसेति-अहिंसा जीवानामव्यापादनं सत्यवचनं सूनृतानिधानं / अस्तन्यमचौर्य / अकहपना ममेदं वस्तु नवतीत्यकल्पनमपरिग्रहता / ब्रह्मचर्य मैथुनवर्जनं / एतानि पञ्च व्रतानि पञ्च यमाश्च जवन्ति / तथाऽक्रोधः क्षमाकरणं / हिः पादपूरणे / आर्जवं जुलावकरणं / शौचं जलमृत्तिकादिन्जिः पावित्र्यसंपादनं // 14 // संतोषश्चित्तस्य स्वास्थ्य नि3 वेशनं / गुरुशुश्रूषा गुरोः सेवा / एतानि उपव्रतानि नियमाश्च जवन्ति / इत्यमुना प्रकारेण / एते दश दशसंख्याकाः / कीर्तिताः प्रोक्ताः। व्यासानुसारिजिः व्यासं बादरायणमतमनुसरन्ति प्रमाणयन्ति येते तथा तैः सांख्यैः सांख्यदर्शनानिमत-15 पुरुषैः। यमा अमी अहिंसादयः पञ्च यम्यते यावजीवमुपरम्यते श्रात्मा यैरिति यमाः निगद्यन्ते प्रतिपाद्यन्ते इत्यर्थः 15 ASASSASSIC // 6 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy