________________ SOS अध्यात्म चतुर्थप्रबं. सारः सटीकः // 5 // KURORIS36*** प्रामाण्यं प्रमाणत्वेन स्वीकरणं यथार्थाभिधायिकत्वपरीक्षया नितसिद्धान्तत्वं तस्य य उपगमोऽङ्गीकारः स एवात्मा स्वरूपं यस्य तद्रूपं / सम्यक्त्वं सम्यग्दर्शनं / दर्शितमुपदिष्टमित्यर्थः॥ए॥ उतार्थमेव विवृण्वन् अन्योऽन्याश्रयदोषं परिहरतिशुद्धाऽहिंसोक्तितः सूत्रप्रामाण्यं तत एव च। अहिंसाशुधीरेवमन्योऽन्याश्रयजीन तु // 10 // शुजेति-शुचाहिंसोक्तितः शुद्धा सुयुक्तिविमला न हिंसा प्राणिवधोऽहिंसा तस्या या उक्तिर्देशना तस्याः सकाशात् / सूत्रप्रामाण्यं सूत्रस्यागमस्य प्रामाण्यं प्रमाणनावः शोधितसिधान्तत्वं नवति / च पुनः। तत एव तस्मादेव प्रमाणवत्सूत्रपचनश्रवणत एव, न त्वन्यस्मात् / अहिंसाशुषधीः अहिंसायामहिंसात्मके धर्मे शुधाऽविपरीता धीबुधिर्यस्य स तथाविधो जीवो जवति / तुः पुनरर्थे / एवमुक्तप्रकारेणान्योऽन्याश्रयत्नीः अन्योऽन्यस्य परस्परस्याश्रयणमाश्रयस्तन्नामको दोषविशेषस्तस्मात् जीयं / न तु न भवति / तदपाजावत्वात् / कुतो यतः शुचाहिंसोक्तितः शास्त्रस्य प्रामाण्यं स्वातंव्येण सिध्यति, तवणादेश्च सकाशादहिंसाशुधीः स्वतंत्रतयैवोत्पद्यते / न त्वेवं मन्यतेऽस्मानिः यतः सूत्रप्रामाण्ये सिधे सति अहिंसाशुधीः सिध्यति, तस्यां च सिधायां सत्यां सूत्रप्रामाण्यं सिध्यतीति कुतोऽन्योऽन्याश्रयदोषावकाशः? न कुतोऽपीत्यर्थः। अत्रायं नावः-यस्मिन् शास्त्रे शुघाहिंसोपदेशोऽस्ति तस्य तत एव प्रामाण्यं सिध्यति अहिंसोक्तिमबास्त्रश्रवणादेव श्रोतुः करुणावती धीरुत्पद्यतेऽतः कोऽन्योन्याश्रयावकाशः इत्यर्थः॥१०॥ ॥ए