SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कुत एवमिति चेत् सर्वस्यापि धर्मकृत्यस्य सारं सम्यक्त्वमित्याहकनीनिकेव नेत्रस्य कुसुमस्येव सौरजम् / सम्यक्त्वमुच्यते सारं सर्वेषां धर्मकर्मणाम् // 5 // कनीनिकेति-सर्वेषां समग्राणां / धर्मकर्मणां धर्मार्थ जीवे ब्रह्मस्वरूपनिष्पादनाय धर्मस्य वा यानि कर्माणि कृत्यानि तेषां / सारं आगमोक्तस्वफलप्राप्तये बलं / सम्यक्त्वं सम्यग्दर्शनं / उच्यते प्रोच्यते जिनादिनिः, यथार्थदेवगुरुधर्माणां परीक्षालपोत्पत्तेः कदाग्रहानावात् प्रबलरुच्युत्पादकत्वात् न्यायकारित्वाच्च / कथमिव ? नेत्रस्य नयनयुगलस्य कनीनिकेव नेत्रतारकेव यथा सारं, पदार्थदर्शनबलोपेतत्वात् / तथा कुसुमस्य पुष्पस्य सौरजमिव सुरजित्वमिव, तधिना पुष्पस्यानादेयत्वादित्यर्थः // 5 // सम्यक्त्वं निसर्गरुच्यादिजन्यश्रद्धापरिणामो जवति / सा च रुचिर्दशधाऽनया गाश्रयाऽवसेया-"निसग्गुवएसरु आणरु सुत्तबीयरुश् मेव / अनिगमवित्थाररु किरियासंखेवधम्मरुश्॥१॥" आसां मध्यादेतत्कतिचिद्रूपं निरूप्यते / | तत्रापि तावधर्मरुच्यात्मकमाह तत्त्वश्रझानमेतच्च गदितं जिनशासने / सर्वे जीवा न हन्तव्याः सूत्रे तत्त्व मितीष्यते // 6 // तत्त्वश्रधानमिति एतत् सकलधर्मक्रियासारं सम्यग्दर्शनं / जिनशासने जिनागमविषये। तत्त्वानं तत्त्वानिलाषरूपं / गदितं तीर्थकरादिभिः कथितं / चः पुनरर्थे / तच्च तत्त्वं अनारोपितयथार्थवस्तु / सूत्रे जिनोक्ताचारांगाधंगे। इत्येवं वक्ष्यमाणस्वरूपं / इष्यते जिनादिनिःप्रोच्यते / किं तदित्याह-सर्वे जीवा न हन्तव्याः सर्वे त्रसस्थावरादिनेद
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy