________________ श्रध्यात्म सार: सटीकः तदिदमिति-तत्तस्मानिस्तरंगत्वप्रापणात् / अधुना संप्रति निश्चयप्राप्त्यवसरे / इदं योगिमनः / नियतवस्तुविलास्यपि द तृतीयप्रबं. नियतं निश्चितं यषस्तु चैतन्यस्वरूपं तस्मिन् विलासो रमणस्वन्नावो विद्यते यस्य तत्तथाविधमपि सत् / निश्चयान्निश्चयस्वजावात् / अन्यत् व्यवहारविकट्परागादिकं / नैव उपैति नैव गृहाणि / कुतः? यतः क्षणं पादिमात्रकालं यावत् / असंग निरालंबनं सत् / उदीतनिसर्गधीहतबहिर्ग्रहं उदीता उदयं प्राप्ता निसर्गा स्वनावमात्रग्राहिणी या धीबुधिस्तया हतं निरस्तं परिहृतमिति यावत् बहिर्ग्रहं बहिर्मुखज्ञानं यस्य तदेवंविधं / अन्तश्चित्तं / अत्र निश्चयकट्पनायां / उदाहृतं कथितमित्यर्थः॥११५॥ अथ श्लोकष्येनोपसंहरतिकृतकषायजयः सगजीरिम प्रकृतिशान्तमुदात्तमुदारधीः / खमनुगृह्य मनोऽनुनवत्यहो गलितमोहतमः परमं महः // 116 // कृतेति-उदारधीः उदारा निर्विकारत्वात्प्रशस्या धीर्बुधियस्य स तथाविधः पुमान् / कृतकषायजयः कृतो निष्पादितः कषायाणां क्रोधादीनां जयोऽजिजवो येन स तथाविधः सन् / स्वं निजं / मनश्चित्तं / अनुगृह्य श्रात्मस्वरूपानुकूलं विधाय / अहो इत्याश्चर्यकरं / सगनीरिम अत्यगाधं / प्रकृतिशान्तं प्रकृत्या स्वजावेन शान्तं स्थायित्नावकं संतापवर्जितमिति यावत् / उदात्तमतिप्रधान / गलितमोहतमो गखितं सर्वथा परिघ्रष्टं मोहतमो मोहोऽझानं मोहनीयकर्मजो