________________ 06 GLO सर्वस्य शुनाशुनसंकटपराशेः प्रवृत्तेर्वा निवृत्तिावृत्तियस्मिन् स चासौ समाधियेये एकाग्रता तस्मै भवति स्वयमेव जायत इत्यर्थः॥ 113 // निश्चयदशामेवाहश्ह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् / चरणदर्शनबोधपरंपरापरिचितं प्रसरत्यविकल्पकम् // 114 // इहेति-हि निश्चयेन / इह निर्विकपदशायां / हृदयं मनः / सर्वबहिर्विषयच्युतं सर्वः समग्रः बहिरात्मव्यतिरिक्तः दाबाह्यो विषयो मनसि चिन्तनीयस्तस्माच्युतं रहितं सत् / केवलमेकाग्रतया। आत्मनि शुधात्मस्वजावे / आगतं लयप्राप्त। चरणदर्शनबोधपरंपरापरिचितं चरणं समतास्थितिरूपचारित्रं, दर्शनं च सम्यक्त्वं सामान्यबोधो वा, बोधश्च विशेषग्राहिज्ञानं तेषां या परंपराविछिन्नधारा तया परिचितं पौनःपुन्येन संसर्गीकृतं / अविकंपकं विकटपातीतं स्तिमितोदधिवनिस्तरंग मनः प्रसरति आत्मन्येव व्यामोतीत्यर्थः॥ 114 // अस्या एव विशेषमाहताददमन्यापैत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् / क्षणमसंगमुदीतनिसर्गधीहतबहिर्महमन्तरुदाहृतम् // 115 // ROGROCEAECSCROCHACHAR SeSSLOGASOLESALE थ०१६