________________ 954 तृतीयप्रबं. थध्यात्मसारः सटीकः च्युतमिति-मनश्चित्तं / असहिषयव्यवसायतः असन्नशोजनो यो विषयो मनसश्चिन्तनीयमातरौषध्यानादि तस्मिन् यो व्यवसायो मनसो व्यापारस्तस्मात् / च्युतं व्यावृत्तं सत् / अधिकसौष्ठवात् अधिकमतिशयेन यत्सौष्ठवं सुप्रसन्नता शुनसंकटपकौशलं वा तस्मात् / यत्र ध्यानावश्यकात्मस्वरूपचिन्तनादौ / खगति लीनतां याति / तत्पदं तस्तु क्रिया-18 दिकं वा / आत्मवत् निजस्वरूपवत् / वाऽथवा / प्रतिकृतिः जिनप्रतिमावत् जिनप्रतिबिंबवत् / अत्र मनःशुधौ / शुज़ सुन्दरं / अवलंबनं हेत्वाधारं / मतं कथितमित्यर्थः॥ 11 // __एवं कियदुरं प्रवर्तितव्यमित्याकांदायामाहतदनु काचन निश्चयकल्पना विगलितव्यवहारपदावधिः / न किमपीति विवेचनसंमुखी नवति सर्व निवृत्तिसमाधये // 113 // तदन्विति–विगलितव्यवहारपदावधिः विगलितः स्रस्तः परिपूर्णपालितत्वात् पृथग्जूत इति यावत् व्यवहारः पूर्वोतस्तस्य यत्पदं सरागावस्थादिस्थानं तस्य योऽवधिः व्यवहारदशायाः पूर्तिर्यस्यां सा तथा / तदनु तत्तस्मात् अशुजविकस्पानुत्थानात् अनु पश्चात् / न किमपि न विद्यते किमपि किञ्चनमात्रमपि व्यवहारेण मम साधनं इति विवेचनसंमुखी। इत्यमुना वक्ष्यमाणप्रकारेण / विवेचनं निश्चयव्यवहारयोः स्वपरस्वरूपयोश्च परस्परेण पृथक्करणं तस्मिन् संमुखी तत्र [विपर्यासवर्जिता निष्पन्नप्राया सुखयतावती तयोरनुरूपपरिणामिनीति यावत् / काचन अपूर्वा सूक्ष्मनावग्राहिणी।। निश्चयकल्पना निश्चयः पारिणामिको निजस्वजावस्तस्य कहपनानुमितितुलना कार्या / किमर्थ ? सर्वनिवृत्तिसमाधये / ॥ए०॥