SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: सटीकः शास्त्रादिति-इहाध्यात्मसारवक्तव्यतायां कामप्यनिर्वचनीयामत्यनुतां प्रक्रियां विविधाधिकाररूपां प्रकरणमिति प्रथमप्रबंधः यावत् / ब्रुवे कथयामि / किविशिष्टां? सम्यकपरिचितां सम्यक् सुप्रशस्तविधिना सुगुरुयोगेन वा परिचितां पुनः पुनः सेवितां / कस्मादित्यपेक्षायामाह-शास्त्रात् शास्ति शिक्ष्यति वक्ति वा सम्यग्दर्शनादिमुक्तिमार्ग त्रायते चाश्रवहेतुन्यो| मिथ्यात्वादिन्यः प्राणिगणमिति शास्त्रं जिनप्रवचनं तस्मात् / तथा धीमतां धीः प्रज्ञाप्रकर्षोऽस्ति येषां ते तथा तेषां धीमतां श्रीहरिनादिपूर्वसूरीणां / संप्रदायाच्च संप्रदायोऽविच्छिन्नपरंपरागतगुरुगम्याम्नायस्तस्मात् / तथाऽनुजवयोगाच्च अनुनूयते शास्त्रोक्तार्थश्रवणानन्तरं स्वविमर्शेन यथावस्थितवस्तुस्वरूपे प्रापितं परिपक्व विज्ञानमित्यनुलवस्तस्य योगः प्राप्तिस्तस्मादित्यर्थः॥७॥ किमर्थ कथमिवायं प्रयत्न इत्याशंकायामाह योगिनां प्रीतये पद्यमध्यात्मरसपेशलम् / नोगिनां जामिनीगीतं संगीतकमयं यथा // 7 // योगिनामिति-अध्यात्मरसपेशलं अध्यात्मगतो यो रसस्तेन पेशवं मनोहरं कोमलमिति यावत् / तथाजूतं पद्यं श्लोकरचनात्मकं शास्त्रं / योगिनां योगो ज्ञानादिको मोक्षसाधकव्यापारोऽस्ति येषामिति योगिनस्तेषां योगिनां / प्रीतये प्रीतिः। प्रमोदस्तस्यै नवति / केषां किमिव ? यथा संगीतकमयं जामिनीगीतं यथा येन प्रकारेण संगीतकं सवाद्यगीतनृत्यं कर्म | | तत्प्रचरं यत्र तत्संगीतकमयं / जामिन्यः स्त्रियस्तासां यजीतं गानं कामोद्दीपकतया जोगिनां नोगाः शब्दादिपञ्चविषयाः| पितया विद्यन्ते येषां ते तथा तेषां प्रीतये नवति / तेन प्रकारेणेदं शास्त्रं योगिनां प्रीतये नविष्यतीत्यर्थः // 7 // CARROCESCRCRACACARE
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy