________________ CORRECORAKAR - जगदानन्दनः स्वामी जयति ज्ञातनन्दनः। उपजीवन्ति यहाचमद्यापि विबुधाः सुधाम् // 5 // जगदानन्दन इति-ज्ञातनन्दनो ज्ञातो ज्ञातवंश्यः प्रसिद्यो वा सिद्धार्थो नृपस्तस्य नन्दनः पुत्रो यः स तथा / स्वमैश्वर्य तुंक्त इति स्वामी सकलसत्त्वनायकः / जयति सर्वोपरि वर्तते / स कः? जगदानन्दनो जगत्रिनुवनवर्तिनव्यजन वृन्दमानन्दयति यथावस्थितसकलवस्तुस्वरूपदर्शनेन सकलसंशयविच्छेदाच्च सहर्ष करोति यः स तथा / यघाचं यस्या३ गमवाणीं / सुधां पीयूषं / विबुधा देवा विशिष्टपंमिता अपि / अद्याप्यधुनातनकालं यावत् / उपजीवन्ति उपजीविकया| श्राश्रयन्ति सेवन्त इत्यर्थः॥५॥ एतानन्यानपिजिनान्नमस्कृत्य गुरूनपि / अध्यात्मसारमधना प्रकटीकर्तुमत्सहे॥६॥ एतानिति-एतानुक्तपूर्वान् पलादीन् / अन्यानपि अजितादीन् जिनान् तीर्थकृतः / नमस्कृत्य नमस्कार विधाय / गुरूनपि धर्मोपदेशदायकादीन् नमस्कृत्य / अधुना इदानीं। अध्यात्मसारं आत्मानमधिकृत्य नवतीत्यध्यात्म शुधात्मस्वरूपश्रवणमनननिदिध्यासनरूपमिति यावत् / तस्य यः सारः परमार्थस्तं / प्रकटीकर्तुं स्फुटीकर्तुं / उत्सहे सोद्यमोऽस्मीत्यर्थः। अनेन श्लोकेनानिधेयसूचा कृता / तच्चानिधेयं करिष्यमाणाध्यात्मसाररूपं / संबन्धप्रयोजने च सुधीनिः स्वयमेवान्यूह्ये // 6 // नमस्कारानन्तरसूचितमभिधेयमेव शास्त्रमहिमधारा प्रपश्चयति शास्त्रात्परिचितां सम्यक संप्रदायाच्च धीमताम् / इहानुनवयोगाच्च प्रक्रियां कामपि ब्रुवे COMICROCOM