SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ TeSSSSSSSSS अस्यैव परिहरणीयत्वं स्पष्टयतितस्मातानुगत्या यत् क्रियते सूत्रवर्जितम् / श्रोघतो लोकतो वा तदननुष्ठानमेव हि // 1 // तस्मादिति-तस्मात् पूर्वोक्तहेतुतः। यत् सूत्रवर्जितं सूत्रोक्तसमाचाराद्वहितं / ओघतः ओघसंज्ञातः / वाऽथवा लोकतो लोकसंज्ञातः / गतानुगत्या परस्परलोकवर्तनानुपेक्ष्या / क्रियते आसेव्यते / तत् हि निश्चयेन / एवेत्यन्यविषयपरिहारेण / अननुष्ठानमननुष्ठानाश्रयं ज्ञेयं / तच्च न करणीयं, श्रमोक्षमार्गस्य सेवनत्वादित्यर्थः॥१॥ अवास्य फलमाह| कामनिर्जरांगत्वं कायक्लेशादिहोदितम् / सकामनिर्जरा तु स्यात् सोपयोगप्रवृत्तितः // 7 // अकामेति--श्हाननुष्ठाने / कायक्लेशात् स्थाननिषीदनादिकरणेन शरीरपरिश्रमात् / अकामनिर्जरांगत्वमकामनिर्जरायाः प्रयोजकत्वं निमित्तमिति यावत् अजातमोक्षकामनात्वेन मोक्कारणानावात् किंचित् मनुष्यत्वव्यन्तरत्वादिगतिप्रापकपुण्यनिमित्तत्वेन सांसारिकसुखहेतुत्वं / नदितं जिनादिनिः सिद्धान्ते कथितं / तुःपुनरर्थे / सकामनिर्जरा तु सह कामेन मोदानिलाषपूर्वकोद्यमेन या निर्जरा कर्मपरिषटाना सकामनिर्जरा सा तु / सोपयोगप्रवृत्तितः सदुपयोगान्विता साध्यदृष्टिपूर्विका सोपयोगा सा चासौ प्रवृत्तिश्चेति तस्याः सकाशात् / स्याजायते / अतोऽस्याननुष्ठानिनः कस्यचिदेव |सा स्यान्न वेत्यर्थः 1 // म. 14
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy