SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ * तृतीयप्रबं. श्रध्यात्मसारः सटीकः * * - यमुक्तं शुझान्वेषणे तीर्थोच्छेदः स्यात्तदविचारितमेवेत्याहतीर्थोच्छेदनिया हन्ताविशुद्धस्यैव चादरे / सूत्र क्रियाविलोपः स्यांतानुगतिकत्वतः॥ 6 // तीर्थोच्छेदेति-हन्तेति कोमलामंत्रणे / हे जग त्वं स्वचेतसि सम्यग् विचारय / तीर्थोच्छेदनिया तीर्थ जिनशासनं तस्योच्छेदो विनाशो मा जवत्विति या जीनयं तया / एव निश्चयेन / अविशुधस्य सूत्रविरुषस्य शिष्यादेीक्षणमावश्यकादिकरणं तस्य / श्रादरे स्वीकारे कृते सति / गतानुगतिकत्वतः यथैकं कुपथा गच्छन्तं दृष्टाऽन्योऽपि तेनैव गच्छति तथैव तदन्योऽपीत्येवंरूपा गतानुगतिका प्रोच्यते तस्या जावस्तत्त्वं तस्मात् / सूत्रक्रिया विलोपः सूत्रोक्तस्य सर्वस्यापि दाक्रिया विधेविलोपो विनाशः / स्यानवेत् / ततो जवनिः का तीर्थपाखना कृतेत्यर्थः॥ 6 // ननु बहुन्निः कृतं कुर्वतां दोषो न जवतीत्यारेकानिवारणायाहधर्मोद्यतेन कर्तव्यं कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन // 70 // दा धर्मोद्यतेनेति-चेद्यदि बहुतिः सूत्रनिरपेक्ष्मजूतपुरुषैर्यत्कृतमासेवितं कृत्यं तदेव धर्मोद्यतेन धर्मोद्यमपरेण पुंसा कर्तव्यमाचरणीयं जवति / तदा तस्मिन् सति बहुकृतस्य कर्तव्यत्वेन सिधे सति / कदाचन कस्मिंश्चिदपिकाले / मिथ्या दृशां बौशादीनां संबन्धी। धर्म श्राचारः। त्याज्यः परिहार्यो न स्यात्, प्रनूततरपुंजिः सेवितत्वात्, जैनजनापेक्ष्या तापरेषामतिबहुत्वादिति / यदि त्यजसि तदा न बहुजनकृतं नवता प्रमाणीकृतं, यदि च षे तस्याजिनमतत्वादिति तदि| सूत्रोक्तस्यैवापत्तिरित्यर्थः॥ 10 // * **
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy