________________ जरेति-जरामरणदावाग्निज्वलिते जरा वयोहानिःमरणं च प्राणत्यागलक्षणं ते एव दावाग्निः सर्वस्याजावकारित्वानवहिस्तेन ज्वलितं प्रदीप्तं तस्मिन् / जवकानने जव एव काननमरण्यं तस्मिन् / पीयूषघनवृष्टिवत्पीयूषममृतं तन्मयो यो घनो द मेघस्तस्य वृष्टिवर्षणं तत् यथा अमृतमेघवृष्टिः सुखाय नवति तथैव एका समतैव प्राणिनां सुखाय आनन्दाय जवतीति॥४॥ उक्तार्थ दृष्टान्तेन स्पष्टयतिश्राश्रित्य समतामेकां निर्वृता जरतादयः / न हि कष्टमनुष्ठानमनूत्तेषां तु किञ्चन // 53 // आश्रित्येति-एकामक्तिीयां समतामुक्तरूपां। आश्रित्याङ्गीकृत्य / जरतादयो जरतः प्रथमश्चक्रवर्ती स श्रादिर्येषां ते / श्रादिशब्देन मरुदेवीसूर्ययशःप्रनृतयो ग्राह्याः। निवृताः शिवं गताः। तुः पुनरर्थे / हि निश्चयेन / तेषां जरतादीनां / / कष्टं कष्टोत्पादकं तपोलोचपरिसहादिसहनं / अनुष्ठानं व्रतसंयमादिपरिपालनं / किंचनलेशमात्रमपि / नैवात् / अतः समतैवैका निस्तारिकेति सिझमिति // 43 // समतैव प्राणिनामनिष्टहारिणीष्टसंपादिनी चास्तीत्याह अर्गला नरकछारे मोदमार्गस्य दीपिका / समता गुणरत्नानां संग्रहे रोहणावनिः॥४४॥ अर्गलेति-जो नव्याः समता पूर्वोक्ता / नरकबारे नरकगतौ प्रविशतां जीवानां रोधनेऽर्गवा कपाटमध्यस्थो रोधकः काष्ठादिदंगः तद्रूपा वर्तते / तथा मोदमार्गस्य मुक्तिपथस्य प्रकाशने / दीपिका दीपमालास्ति / तथा गुणरत्नानां गुणरूपमणीनां / संग्रहे संचयकरणे / रोहणावनिः रोहणाचलगिरिजूमिका वर्तत इत्यर्थः॥४॥