________________ | यन्नास्ति त्रिनुवनेऽप्यविद्यमानं परवस्तुषु ममत्वादिसंबन्धमवस्तुरूपं / तदपि पश्यति मिथ्यात्वोदयवशात् कुदेवगुरुधर्मेषु / सुदेवगुरुधर्मत्वमिव, पुंश्चलीषु स्वजार्यासु च सतीत्वमिव ममतान्धः पुमान् अविद्यमानान् सर्वान् संबन्धान विद्यमानतया विलोकयति / तु पुनः / जात्यन्धः जन्मान्धः / यत् विद्यमानं घटादिकं वस्त्वस्ति। एतत् एतावन्मात्रमेव वस्तु / न पश्यति न विलोकयति / इत्येवं / अनयोर्ममतान्धजात्यन्धयोः। महान् अतिप्रौढः। नेदोऽन्तरं व्यवधानमिति यावत् वर्तते इति 12 अथाष्टन्निः श्लोकैर्ममतान्धस्याविद्यमानवस्तुदर्शकत्वं विशदीकुर्वन्नाहप्राणाननिन्नताध्यानात् प्रेमजूम्ना ततोऽधिकाम् / प्राणापहां प्रियां मत्वा मोदते ममतावशः // 13 // प्राणानिति--ममतावशो ममत्वबुझिव्याकुलीकृतो जनः / प्राणापहां प्राणा लावतो धर्मजीवनजूता व्रतादयो ऽव्यत आयुरिन्जियादयस्तानपहन्ति विनाशयतीति तां / प्रियां वसनां / अनिन्नताध्यानादात्मनः सकाशादनेदध्यानात् श्यमेव 6 मे जीवितमिति चिन्तनात् / प्राणान् प्राणरूपां मत्वा / तथा प्रेमजूम्ना प्रेमप्राचुर्येण / ततोऽधिकां ततः प्राणेन्योऽप्यधिकां | | मत्वा / मोदते आनन्दितो नवतीति // 13 // कुन्दान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुम् / मांसग्रन्थी कुचौ कुंजौ हेनो वेत्ति ममत्ववान्॥१४ __कुन्दानीति-ममत्ववान् जनः / अस्थीनि कीकसानि तद्रूपान् दशनान् प्रियाया दन्तान् कुन्दानि कुन्दतरुपुष्पाणि तद्रूपान् / वेत्ति जानातीति सर्वत्र क्रियासंबन्धः / तथा श्लेष्मगृहं श्लेष्मा कफपिंडस्तस्य गृहं सदनरूपं / मुखं प्रिया