________________ ते देवानपि सुखित्वेन न गणयन्तीत्याह मदमोह विषादमत्सरज्वरबाधाविधुराः सुरा अपि / विषमिश्रितपायसान्नवत सुखमेतेष्वपि नैति रम्यताम् / ए॥ मदमोहेति-सुरा अपि देवा अपि मदमोहविषादमत्सरज्वरवाधाविधुराः मदो महा समुद्भूतगर्वोन्मादः, मोहश्च विमानाचरणसुरांगनादिषु मूर्ग आसक्तिरिति यावत् , विषादश्च स्वतो महार्षिकैः कृतोऽपमानादिजः खेदः इतरमहर्द्धिद दर्शनजन्यं दैन्यं वा, मत्सरश्च परसंपदसहनपरिणामः, तैर्जातो यो ज्वरो दाहविशेषः स एव तस्य वा बाधा पीडा तया5 विधुरा व्याकुलाः सन्तः / एतेष्वपि पूर्वोक्तविषयेष्वपि / सुखं सातरूपं / विषमिश्रितपायसान्नवत् विषेण गरेण मिश्रितमेकीकृतं यत् पयो मुग्धं तेन निष्पन्नं यदन्नं पायसान्नं रेयी तत्तत्तुट्यं वर्तते, यथा विषमिश्रितपायसान्नं नुक्तं सत् जीवितहरं भवति तद्देवसुखमपि धर्मजीवनहरं नवति, जन्मादिपरत्वादिति जावः / ईदृशं सुखं रम्यतां रमणीयतां / |नैति न प्राप्नोति इति // ए॥ देवसुखेषु दुःखस्वरूपं दर्शयन्नाह रमणीविरदेण वह्निना बहुबाष्पानिलदी पितेन यत् / त्रिदशैर्दिवि कुःखमाप्यते घटते तत्र कथं सुखस्थितिः॥ एए //