SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ वचन कस्मिंश्चित्देत्रकालादौ / अधीरता लौट्यमातुरतेति यावत् / न जायते / केषां कैरिव 1 प्रसरत्पद्मपरागमोदिनां प्रसरतां विकास गवतां पद्मानां कमलानां ये परागाः परिमल नरितपुष्परजांसि तैर्मोदन्ते श्रानन्दोत्कर्ष प्राप्नुवन्ति ये ते तथा तेषां / अलिनां चमराणां / अरसैः न विद्यते रसः स्वादनीयमकरन्दो येषु तैस्तथाविधैः / कुसुमैरिव पुष्पैरिव / यथा पद्मरागतृप्ता नृमरा नीरसकुसुमास्वादने समातुरा न जवन्ति तथाध्यात्मसुधास्वादतृप्ता मुनिवरा मुग्धादिमधुररसास्वादनेऽनासक्तास्तिष्ठन्तीत्यर्थः॥१॥ तेषां रसेष्वनादर एव नवतीत्याह विषमायतिनिर्नु किं रसैः स्फुटमापातसुखैर्विकारिजिः। नवमेऽनवमे रसे मनो यदि मग्नं सतताविकारिणि // ए॥ विषमेति-यदि सतताविकारिणि सततमनारतं सर्वदेति यावत् विकारी न नवतीत्यविकारी परिणतिफलेऽदृश्यमानविकारत्वात् तस्मिन् ईदृशे / अनवमे दोषवर्जिते / नवमे नवसंख्याके / रसे रसाधिराजे शान्तरसे / मनश्चित्तं / मग्नं लयप्राप्तं नवेत् / तदा नु वितर्के। विषमायतिनिः विषमा नयानका दु:सहा वा श्रायतिर्नुक्त्युत्तरकालो येषां ते तथा तैः / स्फुटं स्पष्टं / आपातसुखैः आपातो जोगावसरस्तावन्मात्रं सुखं येषु ते तथा तैः / तथा विकारिजिः विकारं परिणतिविपर्यास देहविपर्यासं च कुर्वन्ति ये ते तथा तैः / रसैः दीरादिनिः / किमिति किं प्रयोजनमात्मनः सिध्यति ? न किमपीत्यर्थः / शान्तरसास्वादनादितरे सर्वेऽपि रसा निःप्रयोजना इति नावः // ए॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy