SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नृत्यवादिनविशिष्टश्रवणमनोनयनविनोददायिनी क्रिया तस्मिन् रता लयं प्राप्ताः / योगिनो मुनीश्वराः / रमणीमृापाणिकंकणक्वणनाकर्णनपूर्णघूर्णना रमण्यो रम्यरूपा नवयौवनाः स्त्रियस्तासां ये मृदवः कोमक्षाः पाणयो हस्तास्तेषु यानि कंकणानि स्वर्णादिमयरत्नादिजटितानि वलयानि तेषां यत् क्वणनं श्रवणसुखदो रणरणकध्वनिस्तस्याकर्णनं श्रवणं तेन पूर्ण परिपूर्ण घर्णनं घोलनं श्रुतिरन्ध्रमूलपर्यन्तेषु तध्वनेमणं इति यावत् येषां ते तथाविधाः सन्तोऽपि / रता न जवन्तिअनुजूतिनेटीसंगीतरतत्वादासक्ता न जवन्तीत्यर्थः // 4 // स्खलनाय न शुद्धचेतसां ललनापञ्चमचारुघोलना। यदियं समतापदावलीमधुरालापरतेन रोचते // ___ स्खलनायेति-शुमचेतसां शुद्धं रागादिदोषमलाजावादिमलं तो मनो येषां तेषां / खलनापञ्चमचारुघोलना ललन्ति क्रीमयन्तीति ललनाः स्त्रियस्तानिः पञ्चमस्वरेण तारमधुरेण कृता या चार्वी मनोहरा घोलनाऽमन्दनादमूर्चना सा / स्खलनाय धर्मध्यानबाधनाय न नवति / कुतः? यद्यस्मात् / समतापदावलीमधुरालापरते समता सर्वप्राणिषु तुट्यवृत्तिता तस्याः स्वरूपफलादिप्रतिपादकत्वेनोत्पादकानि यानि पदानि शास्त्रवाक्यानि तेषां या श्रावली श्रेणिस्तस्या यो मधुरो मिष्टः शान्तरसगरिष्ठ इति यावत् आलापो ध्वनिस्तस्मिन् रतिश्चेतसःप्रीतिर्यस्य तस्य योगिनः। श्यं खलनापंचमचारुघोलना / न रोचते रुचिकरा न लवतीति // 5 // अथ श्लोकत्रयेण रूपविषये विरक्तत्ववृत्तिं दर्शयतिसततं क्षयि शुक्रशोणितप्रजवं रूपमपि प्रियं न हि। अविनाशिनिसर्गनिर्मलप्रथमानखकरूपदर्शिनाम् ||
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy