SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विषयाः शब्दादयः पञ्चविधा इहपरलोकगतास्तेषु उपश्लिष्टेषु यन्निःस्पृहत्वं तत्तेषु वर्तते / च पुनः / गुणेषु गुणास्तपःप्रजावात् समुत्पन्नाश्चारणपुलाकामौषध्यादिलब्धिरूपास्तेषु सत्सु यन्निर्मदत्वं तत्तेषु वर्तते / तयोः प्रथम उक्तसंख्याक्रमवशतो विषयवैराग्यं / अपरं अप्रधान, विषयेषु विरक्तत्वं सामान्यपुंसामपि निन्द्यत्वेन सुकरमतोऽप्रधानं / तथा वितीयकं गुणवैराग्यं / परं प्रधानं, तषियस्य महतामपि पूज्यत्वेन पुर्निवाररागहेतुत्वात् / अध्यात्मबुधैरध्यात्मपंमितः / प्रकीर्तितं प्रकर्षेण वर्णितमित्यर्थः // 1 // तयोर्मध्यात्प्रथमतो विषयेषु वैराग्यमाह विषया जपलंजगोचरा अपि चानुश्रविका विकारिणः / न जवन्ति विरक्तचेतसां विषधारेव सुधासु मज्जाताम् // 2 // विषया इति-उपखंजगोचरा उपलंज इन्जियाणां ग्रहणयोग्यदेशे प्राप्तिः स एव गोचरो विषय श्राश्रयो येषां इहलोकवर्तिवर्तमानकालिकविषयाणां ते तथा / च पुनः / अनुश्रविका अनु गुरुमुखोच्चारतः पश्चादागमे श्रुताः स्वर्गादि8/गता अतीतानागतकालीना इंचक्रवादिसंबन्धिनः। विषयाः प्रागुक्ताः / विरक्तचेतसां विरक्तं यथास्थितविषयविपाकज्ञानाउदासीनतां गतं चेतो मनो येषां ते तथा तेषां / विकारिणो विकारोत्पादकाः स्वजावस्यान्यथा कारिण इति यावत् / न जवन्ति ज्ञातज्ञेयत्वात्तेषु उजयेषु निःकुतूहलत्वात् न जायन्ते / केषां किमिव ? सुधासु मजतां सुधाः पीयूषसमूहस्तासु मजातां निमग्नानां विषधारेव विषं गरलं तस्य धारा सन्ततपतनं सा इव / यथाऽमृतकुंके निमग्नानामुपरि SARREARCRARSACREAK
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy