SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्या सप्तविंशति भव वृत्तांतः गमनश्चमरस्योर्ध्व मिदमाश्चर्यमष्टमम् // जगति ज्ञायताम्भव्यै विचित्र घटनत्माके // 27 // // अट्ठसय सिद्धत्ति / एकस्मिन् समये-उत्कृष्टावगाहनावन्तोऽष्टाधिकशतमिता न सिद्धयन्ति-तत्र च-अस्यामवसपिण्यां ते तु सिद्धाः-यथा-ऋषभो वृषभस्य सुता भरतेन विवर्जिताच नवनवतिः अष्टौ भरतस्य सुताः 108 शिवङ्गता एक समयेन // 1 // अपिच-पञ्चधनुः शत परिमाणं शरीरश्चोत्कृष्टावगाहना कथ्यते // इति नवमाश्चर्यम् // // असञ्जयाणत्ति-असंयताः-आरम्भपरिग्रहासक्तास्तेषाम्पूजाकुतः-संयता श्चरित्रिणः सदा पूज्यन्ते / अस्यान्त्ववसपिण्यां नवमदशम जिनयोरन्तरे-असंयतानामपि ब्राह्मणादीनाम् पूजा प्रवृत्ता-इति दशमाश्चर्यम्, तथा च-इमानि दशाश्चर्याणि-अनन्तकालातिक्रमेऽस्यामवसपिण्याजातानि-अथ दशाश्चर्याणां तीर्थव्यक्तिः॥ ___अष्टोत्तरशतसिद्धि गमनम्-श्री ऋषभ तीर्थे 1 असंयत पूजा श्री सुविधि तीर्थे 2 हरि वंशोत्पत्तिः श्री शीतल तीर्थे 3 स्त्रीतीर्थ प्रवर्तनं श्रीमल्लि तीर्थे 4 अपरकङ्का गमनम्-श्री नेमिनाथ तीर्थे 5 शेषाणि च-इत्थम् उपसर्ग 1 गर्भापहार 2 अभाविता पर्षत् 3 चमरोत्पात 4 चन्द्रसूर्यावतरण लक्षणानि 5 पञ्चाश्चर्याणि श्री वीरतीथे जातानि // तथा सौधर्मेन्द्रो विचारयति यदत्रापि श्री वीरतीर्थस्य ब्राह्मण कुलेऽवतार आश्चर्यभूतोऽस्ति ? किञ्च तन्नेदमपि कारणम् यत्र भगवान्-नीचैर्गोत्र कर्मोदयेन ब्राह्मणकुले समुत्पन्नः // तन्नीचैत्रिं कर्म भगवता स्थूलसप्तविंशति भवमध्ये तृतीय भवे बद्धम् . प्रसङ्गतः सप्तविंशति भवा लिख्यन्ते // तत्रादिभवः। इत्थम् // विदेहे पश्चिमे कश्विनयसाराभिधः शुचिः॥ आसीद्ग्रामाधिपः क्वापि काष्टार्थ विपिनं ययौ // 1 // मध्याहू सेवकैस्तस्य तदाज्ञावशवर्तिभिः॥ पाचितम्भोजनं शुद्ध निर्दोष हितकारकम // 2 // विचारयति दयेन ब्राह्मणवा लिख्यन्ते / SHESASSASTRA
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy