________________ BLE कल्पमुक्तावल्यां द्वितीय व्याख्याने सौधर्मेन्द्र। संशयः // 48 // व्यावृत्तच्छमभ्यः पुनः-रागद्वेषजेतृभ्यः-पुनः-अन्येषां रागद्वेषजयकारयितृभ्यः पुनः संसार महासमुद्रं तीणेभ्यः-पुनरन्येषाम्भव्यप्राणिनां तारकेभ्यः पुनः सर्वतत्त्वबुद्धेभ्यः-तथाऽपरबोधकेभ्यः-पुनः कर्मपञ्जरान्मुक्तेभ्यः पुनरन्यमोचकेभ्यः पुनः सर्वज्ञेभ्यः पुनः सर्ववस्तुदर्शिभ्यो जिनेभ्यो नमोऽस्तु. पुनः सिद्धिस्थानङ्गतेभ्यो जिनेभ्यो नमोऽस्तु / किम्विशिष्टं सिद्धिस्थानं तद्दर्शयति-निरुपद्रवत्वात्-शिवम् तथा सदा स्थिरत्वात्-अचलम्-पुना रोगरहितम् तथाऽनन्तज्ञानरूपत्वादनन्तम् पुनः साद्यनन्तत्वादक्षयम् पुनः-अव्याबाधम् व्याबाधा सङ्कीर्णपीडा-तया रहितम् पुन न विद्यते पुनरावृत्तिः संसारे पश्चादागमनं यस्मात्-तत्तथा-तादशमिति पुनः सिद्धिगतिनामधेयं यत्स्थानं तत्सम्प्राप्तेभ्यो जिनेभ्यो नमस्कारोऽस्तु पुनर्जितं भयं यैस्ते जितभयेभ्यो नमः एवं सर्वजिनान् नमस्कृत्य सौधर्मेन्द्रः श्री महावीर स्वामिनं नमस्करोति। तथाहिचरमतीर्थङ्कराय धर्मस्यादिकराय पूर्वतीर्थङ्करनिर्दिष्टाय सिद्धिगतिनामकं स्थानं सम्प्राप्तुं कामाय श्रमणाय भगवते महावीराय नमोऽस्तु-तथा हि-तत्र देवानन्दाकुक्षौ स्थितं भगवन्तं श्री महावीरम् अहम्-वन्दे-अत्र स्थितोऽहमिति पश्यतु मां भगवान्-तत्र स्थित इह स्थितमिति-उक्त्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति तदा वन्दित्वा नमस्यित्वा शक्रः पूर्वाभिमुखः सन् सिंहासने सन्निषण्ण उपविष्ट इति / ततस्तस्य शक्रस्य देवेन्द्रस्य देवानां राशोऽयमेतद्रूपः-आत्मविषयः-चिन्तात्मकः प्रार्थितः-अभिलाषारूपः मनोगतः-नतु वचनेन प्रकाशितः-एवम्भूतः सङ्कल्पो विचारः समुत्पन्नः // 16 // मूलपाठः-न खलु एयं भूयं न एयं भव्वं न एयं भविस्त जंन्नं अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किवणकुलेषु वा भिवखागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा // 17 // व्याख्या-न निश्चयेन-एतद्भूतम्-अतीतकाले न भवति तथा न भवत्येतद्वर्तमानकाले तथैतन्नभविष्य // 48 //