SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्ता वल्यां प्रथम व्याख्याने सौधर्मेन्द्र | अधिकार // 42 // पुंडरीयाणं पुरिसवरगन्धहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाण लोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं व्याख्या-तत्र णं इति वाक्यालङ्कारे / त्रिभुवनजनपूजायोग्येभ्योऽर्हद्भयो नमोऽस्तु-नमस्कारो भवतु-किम्बिशिष्टे भ्योऽर्हद्भयः-ज्ञानादियुक्तेभ्यः-पुनः खस्ख तीर्थापेक्षया धर्मस्यादिकारकेभ्यः-पुनस्तीर्थश्चतुर्विधसङ्घस्तस्य कारकेभ्यः स्थापकेभ्यो नमोऽस्तुः. पुनः-परोपदेशं विना स्वयं सम्यग् ज्ञाततत्त्वेभ्यः पुनरनन्तगुणनिधानत्वात्-पुरुषेषत्तमेभ्यः-पुनः कर्मवैरिषु शूरत्वात् पुरुषेषु सिंहतुल्येभ्यः पुनः पुरुषेषूत्तमपुण्डरीक तुल्येभ्यः पुनः पुरुषेषु वरगन्धहस्तितुल्येभ्यः यथा गन्धहस्तिगन्धेन चान्ये दुष्टगजा भज्यन्ते-एवम्भगवत्प्रभावेण दुर्भिक्षादयोऽपि-नश्यन्तीतिभावः पुनश्चतुस्त्रिंशदतिशय युक्तत्वाल्लोकेषु भव्यसमूहेषु उत्तमेभ्यः पुनः-योगक्षेमकारित्वाल्लोकनाथेभ्यः-तत्र सम्यग्दर्शनशानादीनामप्राप्तवस्तूनां प्रापणं योगः-प्राप्तस्य सम्यग्दर्शनादिवस्तुनो रक्षणं क्षेम इति-पुनर्लोकस्य प्राणिमात्रस्य हितप्ररूपकत्वाद्धितकारिभ्यः पुनर्मिथ्यात्वान्धकारनाशकत्वाल्लोके प्रदीपतुल्येभ्यः-पुनः सूर्यवत्सकलपदार्थप्रकाशकत्वाल्लोके प्रद्योतकारकेभ्यःपुनर्भयानामभावोऽभयं तद्दायकेभ्यः-पुनः-चक्षुःसमानश्रुतज्ञानदायकेभ्यः पुनः-मार्गःसम्यग्दर्शनशानादिस्तदायकेभ्यः-पुनः संसारभयभीतानां रक्षकत्वाच्छरणदायकेभ्यः-पुनर्बोधिः-सम्यक्त्वं तद्दायकेभ्यः-पुनर्जीवनञ्जीवः सर्वथा मरणस्याभावो मोक्ष स्तद्दायकेभ्यः-पुनर्धर्मः श्रुतचरित्ररूपस्तद्दायकेभ्यः-पुनर्धर्मस्योपदेशकेभ्यः-पुनर्धर्मनायकम्यः-पुनर्धर्मस्य सारथितुल्येभ्यः-यथा खलु सारथिरून्मार्गे प्रयान्तं रथं समानयति सन्मार्गे-एवम्भगवन्तोऽपि धर्ममार्गात्परिभ्रष्टं जनं धर्ममार्गे समानयन्ति यथा श्री महावीरस्वामिभिर्मघकुमारः सन्मार्गे स्थापितः-तस्य दृष्टान्तो यथा. धरणि पावयन्क क्यापि महावीरविभुर्विभुः // नाम्ना राजगृहं रम्यं नगरं समवासरत् // 1 // // 42 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy