SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने सौधर्मेन्द्र अधिकारः // 41 // विहरति तत्र समये श्रमणं भगवन्तं महावीरं जम्बूनाम्निद्वीपे भरतक्षेत्र दक्षिणार्द्धभरते ब्राह्मणकुण्डग्रामनामकनगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य तस्य भार्याया देवानन्दाया ब्राह्मण्याः-जालन्धरगोत्रायाः कुक्षौ गर्भतयासमुत्पन्नं पश्यति दृष्टवा हृष्टस्तुष्टश्चितेनानन्दितो हर्षघनेनातीवसमृद्धभावङ्गतः प्रीतिमनाः परमसौमनस्यम्प्रातः सन्हर्षवशेन विसर्पहृदयो मेघधाराहतकदम्बसुरभिकुसुमसमानरोमाञ्चितोऽतएवोच्छ्रितरोमकूपः-तथा विकसितवरकमलसमानानननयनोऽथात्-प्रफुल्लकमलवत्-आननं मुखं नयने नेत्रे च यस्येति तादश स्तथा-भगवद्दर्शनजातससंभ्रमात् प्रचलितवरकटकस्तथा त्रुटितकेयूरः (बाजूबन्ध इति) तथा प्रचलितमुकुटकुण्डल स्तथा प्रचलितहारेण विराजमानहृदयः-शोभित वक्षस्थल इति / तथा प्रलम्बमानप्रालम्बः (मोतीक्षुबनक इति) तथा दोलायमानभूषणधर इति ससंभ्रम त्वरितञ्चपलं यथा स्यात्तथा सुरेन्द्रः सिंहासनादुत्तिष्ठति-तदनु-अभ्युत्थाय च पादपीठादवतरति यत्र पादौ स्थाप्यते तत्पादपीठकमिति-ततः पादपीठात्प्रत्यवतीर्य च पादुकेऽवमुञ्चति / किम्विशिष्टे पादुके, वैडूर्यवरिष्ठरिष्ठांजनरत्नैनिपुणशिल्पिभिः-रचिते तत्र नीलश्यामरत्नैरिति / पुनः-देदीप्यमानमणिरत्नमण्डिते तथा चन्द्रकान्तमणयः कर्केतनादिरत्नानि च तै मंण्डिते-एवम्भूते पादुके अवमुश्चतोत्यर्थः-अवमुच्य च-एकपटमुत्तरासङ्गंकरोति तत्कृत्वा चाञ्जलिमुकुलिताग्रहस्तः सन्, तीर्थकराभिमुखः सप्ताष्टपदानि-अनुगच्छति अनुगत्य च वामञ्जानुमुत्पाटयति-भूमौ यथाऽलग्नं स्यात्तथा स्थापयति-तथा संस्थाप्य च दक्षिणानुं धरणितले निवेश्य तथा वारत्रयम् मूर्धानम् (मस्तकम् ) धरणितले निवेशयति / निवेशयित्वा चेषत्प्रत्युन्नमति-उत्तराद्धेनोझै भवति प्रत्युन्नमित्वा-ऊर्वीभूय कङ्कणत्रुटितस्तम्भितभुजौ वालयित्वा-ऊर्वीकरोति वालयित्वा च करतल परिगतं दशनखं शिरसावर्तमञ्जलिं मस्तके कृत्वा चैवमवादीत् मूलपाठः-नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं -पुरिसवर // 41 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy