SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः // अथ सामुद्रिकलक्षणान्याह // आव” दक्षिणे मागे दक्षिणः शुभकृन्नृणाम् // वामो वामेऽतिनिन्द्यः स्यादिगन्यत्वे तु मध्यमः॥ 1 // (व्याख्या ) नराणां दक्षिणे भागे यदि आबों जलभूमिवदावर्तः स्यात्-तदा दक्षिणावर्तः-शुभफलकारी स्यात्- | वामभागावर्तस्तु दुःखफलप्रदायित्वान्निन्द्य एव अन्यशरीरावयवेषु मध्यमफलदः अरेख बहुरेख वा येषां पाणितलं नृणाम् // ते स्युरल्पायुषो निःस्वा दुःखिता नात्र संशयः // 2 // ( व्याख्या) यस्य नरस्य हस्ते सर्वथा रेखा न स्युः-यदि वा बहुरेखाः स्युः तत्रामि नीला काराः स्थूलाःछिन्नाः स्युः-तदा नर-अल्पजीवी दुःखी च स्यात्-तत्राप्ययम्विशेषः रक्तकरतलेन भाग्यवान् नीलवर्णविशिष्टकरतलेन मदिरापानासक्तः-पीतकरतलेन परदारासु लम्पटः-मलिनकरतलेन सर्वथा धनरहितो भवेत्-कठिनकरतलेन बहुपरिश्रमेण आजीविका स्यात् यदि नारीणां करतलानि सुकोमलानि तदा भाग्यवत्यः-भवन्ति-तथा च पुरुषाणां दक्षिणहस्तावलोकनं विधेयम्नारीणाञ्च वामहस्तेषु रेखाविचारो विधेयः // यस्य करतलम् उन्नतं स्यात् तदा दाता भवति-यदि गर्ताकारं स्यात् तदा अदाता निर्धनश्च तथा कोटरिका समानं वर्तुलाकारं गम्भीरश्च स्यात् तदा धनवान् भवेदिति-यदि च हस्तागुल्यः सूक्ष्माः सरलाः स्युः-तदा शोभनम् // अनामिकाऽन्त्यरेखाया कनिष्ठा स्याद्यदाधिका // धनवृद्धिस्तदा पुंसां मातृपक्षो बहु स्तथा // 3 // मणिबन्धात्पितु लेखा करभाद्विभवायुषोः // रेखे द्वे यान्ति तिस्रोऽपि तर्जन्यङ्गुष्ठकान्तरम् // 4 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy