SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्का वल्यां प्रथम व्याख्याने दशकल्प अधिकार // 30 // | देवाणुप्पिए ? मुखलाभो देवाणुप्पिए ? एवं खलु तुम देवाणुप्पिए ? नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं | वइकताणं सुकुमालपाणिपायं अहीणपडिपुष्णपंचिंदिरं सरीरं लक्खण वंजणगुणोववेअंति // अथ व्याख्या-किमवादीत्याह उदाराः-प्रशस्ताः-त्वया देवानुप्रिये ? स्वप्नाः-दृष्टाः-कल्याणकारकाः सश्रीका:यावत्-आरोग्यम् तुष्टिर्दीर्धायुः कल्याणं मङ्गलं वाञ्छितप्राप्तिरेतद्वस्तुकारकाः हे देवानुप्रिये? त्वया स्वप्ना दृष्टाः। तद्यथा हे देवानुप्रिये ? तेऽर्थलाभो भविष्यति? तथा हे देवानुप्रिये भोगानां लाभो भविष्यति-तथा हे देवानुप्रिये ? पुत्रलाभो भविष्यति तथा हे देवानुप्रिये सुखलाभो भविष्यति-एवं खलु त्वं देवानुप्रिये? नवसु मासेषु बहुप्रतिपूर्णेसु सार्धसप्ताहोरात्राधिकेषु गतेषु एतादृशं दारकं पुत्ररत्नं प्रजनिष्यसीति-कीदशं दारकमित्याह-सुकुमालपाणिपादम्-तथा अहीनपञ्चेन्द्रिय शरीरम्-लक्षणव्यञ्जनगुणोपेतम्-तत्र लक्षणान्याह-छत्रादीनीति-तत्र तीर्थकृतां तथा चक्रिणामष्टोत्तरसहस्र परिमितानि तथा बलदेववासुदेवानामष्टोत्तरशतलक्षणानि भवन्ति तथाऽन्येषाम्भाग्यशालिनराणां द्वात्रिंशल्लक्षणानि भवन्ति तत्र च काव्य मित्थम् // छत्रं 1 तामरस 2 धनू 3 रथवरो 5 दम्भोलि 5 कूर्मी 6 कुशाः 7 वापी 8 स्वस्तिक 9 तोरणानि 10 च सरः 11 पश्चाननः 12 पादपः 13 चक्रं 14 शङ्ख 15 गजौ 16 समुद्र 17 कलशौ 18 प्रासाद 19 मत्स्या 20 यवाः 21 धूपः 22 स्तूप 23 कमण्डलू 24 न्यवनिभृत् 25 सच्चामरो 26 दर्पणः 27 तथा-उक्षा 28 पताका 29 कमलाभिषेकः 30 सुदाम 31 केकी 32 घनपुण्यभाजाम् // शरीरकेशेषु नराधिपानां। द्वात्रिंशदेवं नरलक्षणानि // 2 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy