________________ कल्पमुक्ता वल्यां प्रथम ल्याख्याने दशकल्प | अधिकारः // 29 // मूलपाठः-तं जहा गय जाव सिहि च // 7 // अथ व्याख्या-तद्यथा गजादारम्य निर्धूमाग्निपर्यन्तं चतुर्दशस्वप्नाज्ञेयाः // 7 // मूलपाठः-एएसि णं देवाणुप्पिआ ? उरालाणं जाव चउद्दसहं महासुमिणागं के मन्ने कल्लाणे फलवित्ति विसेसे भविस्सइ-त एणं से उसभ दत्ते माहणे देवागंदाए माहणीए अंतिए-एअमढे सुच्चा निस्सम्म हट्ट तुट्ठ जाव हियए धाराहय | कयंबपुष्फर्ग पिव समुस्ससि अरोम कूवे सुमिणुग्गहं करेइ / करित्ता ईई अणुपविसइ / अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविनाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ / अत्थुग्गहं करित्ता देवाणंदं माहणि एवं वयसी // 8 // अथ व्याख्या-एतेषां हे देवानुप्रिय ? उदाराणां प्रशस्तानां यावत्-चतुर्दश महास्वप्नानां दर्शनेन मन्ये कः कल्याणकारी फलवृत्तिविशेषो भविष्यति-ततः स ऋषभदत्तो ब्राह्मणः देवानन्दाया:-ब्राह्मण्याः अन्तिके (समीपे) एतं अर्थ श्रुत्वा कर्णाभ्यां निशम्य चेतला-अवधार्य हृष्टः तुष्टः सन्-यावत्-हर्षवशेन उल्लसित हृदया-मेघधारासिक्तकदम्बपादपपुष्पवत् समुच्छ्वसितरोमकूपः (विकशितरोमराजिः) सन् स्वप्नधारणं करोति-स्वप्नानां अर्थ मनसि चिन्तयतीत्यर्थः / अर्थ मनसि कृत्वा च ईहां अर्थविचारणं प्रविशति-ईहां कृत्वा च आत्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तेषां स्वप्नानां निश्चयं करोति-तत्र मतिश्च-अनागतकाल विशेषा ज्ञेया बुद्धिश्च वर्तमानकालविषयिणी बोध्या ज्ञानञ्च-अतीतानागतवस्तुविषयकं ज्ञेयम् तं निश्चयञ्च कृत्वा देवानन्दां ब्राह्मणी एवमवादीत्प्रोक्तवान् // 8 // मूलपाठः-उरालाणं तुमे देवाणुप्पिए सुमिणा दिवा कल्लाणाणं सिवा धना मङ्गल्ला सस्सिरी आरुग्गतुहि दीहाउकल्लाण मंगलाकारगाणं तुमे देवाणुप्पिए। सुमिणा दिद्वा-तं जहा अत्थलाभो देवाणुप्पिए ? भोगलाभो देवाणुप्पिए ? पुत्तलाभो