________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः // 27 // अथ व्याख्या-श्रमणो भगवान्-महावीरो यदा गर्भे समुत्पन्न स्तदा त्रिज्ञानोपेत आसीत्-तथा देवविमानादहं चोष्ये-इति जानाति किञ्च च्यवमानः सन् नो जानाति-अहं-च्युतः अस्मीति-जानाति-इति // मूलपाठः-जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए, माहणीए, जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकते, तं रयणि च णं सा देवाणंदा माहणी सयणिज्जसि, सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेया रूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए-चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा // 3 // अथ व्याख्या-यस्यां रात्रौ श्रमणो भगवान्-महावीरो जालन्धर गोत्रोत्पन्न देवानन्दाब्राह्मण्याः कुक्षौ समवतरत्तस्यां रात्री सा-देवानन्दा ब्राह्मणी पर्यङ्के शयाना किञ्चित्-तन्द्रिता नातिजाग्रती सती अर्थादल्पनिन्द्रां कुर्वती-पतान्अग्ने वक्ष्यमाणान् उदारान् कल्याणस्वरूपान्-उपद्रवनाशकान्, धनकारकान्-माङ्गल्यकारकान् सशोभान्-एतादृशान् / चतुर्दशसंख्यकमहास्वप्नान् दृष्टवा जजागार-प्रतिबुद्धेति मूलपाठः-तं जहा-गय 1 वसह 2 सीह 3 अभिसेअ४ दाम 5 ससि 6 दिणयरं 7 झयं 8 कुंभ 9 पउम सर 10 सागर 11 विमाण भवन वा 12 रयणुच्चय 13 सिहि 14 च // 4 // अथ व्याख्या-ते स्वप्ना इत्थं निर्दिश्यन्ते-गज-वृषभ-सिंह-लक्ष्मी पुष्पमाला-चन्द्र-सूर्य-ध्वजा कुंभ-पद्मसरोवरसमुद्र-विमान-भवन-रत्नराशि:-निर्धमाग्निः-भवनेति कथने नायमत्राशयः-यदि यस्य तीर्थङ्करस्य जीवः स्वर्गादवतरति तस्य मातादेवविमानं पश्यति-यस्य च तीर्थङ्करस्य जीवः-नरकात्-आगच्छति तस्य जननी भवनं पश्यतीति भावः // मूलपाठः-तएणं सा देवाणंदा माहणी इमेयारूवे-उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए, चउद्दश महासुमिणे // 27 //