SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः // 26 // भगवं महावीरे चरमतित्थयरे पुव्वति-तित्थयरनिदिटे, माहणकुंड ग्गामे नगरे उसमदत्तस्स महाणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए, माहणीए, जालंधरसगुत्ताए, पुव्वरत्तावरत्तकालसमयंसि, हत्युत्तराहि नक्खत्तेणं-जोगमुवागएणंआहार-कंतीए, भवव कतीए, सरीरवकंतीए, कुच्छिसि गम्भत्ताए वक्ते // 2 // इति अथ व्याख्या-अस्मिन्नेव जम्बूद्वीपे, दक्षिणार्धभरतक्षेत्रे, अस्मिन्नेव, अवसर्पिणीकाले, सुषमसुषमानाम्नि चतुष्कोटाकोटिसागर प्रमाणे प्रथमारके, अतिक्रान्ते सुषमानाम्नि त्रिकोटाकोटिसागरप्रमाणे, द्वितीयारके, अतिक्रान्ते सुषमदुष्षमानाम्नि द्विकोटाकोटिसागरप्रमाणे, तृतीयारके व्यतिक्रान्तेदुष्षम सुषमानाम्नि चतुर्थारके बहुव्यतिक्रान्ते किश्चिदूने, तदेवाह-द्विचत्वारिंशद्वर्षसहस्या 42000 ऊना एका सागरकोटाकोटि:-चतुर्थारकप्रमाणम्-चतुर्थारकस्य पञ्च सप्तति 75 वर्षेषु सार्द्धाष्टमासाधिकेषु शेषेषु सत्सु द्वासप्तति 72 वर्षाणि श्रीवीरस्यायुः श्रीवीरनिर्वाणाच्च त्रिभिर्वर्षेः साद्धाष्टमासै श्चतुर्थारकसमाप्तिः-एकविंशतितीर्थङ्करेषु ईक्ष्वाकुकुलसमुत्पन्नेषु काश्यपगोत्रेषु द्वयोः मुनिसुव्रत स्वामिनेमिनाथयोः-हरिवंशकुलसमुत्पन्नयोः-गौतम गोत्रयोः-एवञ्च त्रयोविंशतितीर्थङ्करेषु व्यतिक्रान्तेषु श्रमणो भगवान महावीरः-चरमतीर्थङ्करः पूर्वतीर्थङ्करनिर्दिष्टः श्रीवीरविभुःभविष्यति-इति पूर्व जिनैः कथितः सोऽयं भगवान्श्रमणो महावीरः-ब्राह्मणकुण्डग्रामनगरे-ऋषभदत्त ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालन्धर गोत्रायाः पूर्वरात्रापररात्रकालसमये मध्यरात्रे उत्तराफाल्गुनी नक्षत्रे चन्द्रयोगे आहारपक्रान्त्या दिव्यभवत्यागेन दिव्यशरीरत्यागेन कुक्षौ गर्भतया व्युत्क्रान्तः समुत्पन्नः मूलपाठः-समणे भगवं महावीरे तिनागोवगए, आविहोत्था, चइस्सा मित्ति जाणइ, चयमाणे न जाणइ, चुए मिति जाणइ // 3 // // 26 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy