SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुक्तावल्यां श्रीसमा चारि // 464 // (पक्षमध्ये अनर्थकं निष्प्रयोजनं एकवारोपरि द्वौ त्रींश्चतुरो वारान् कम्बासु बन्धान् ददाति चतुरुपरि बहूनि अड्डकानि वा बध्नाति तथा च स्वाध्यायविध्नपलिमन्थादयो दोषाः यदि चैकाङ्गिक चम्पकादिपढें लभ्यते तदा तदेव ग्राह्यं बन्धनादिपलिमन्थपरिहारात्) पुन:-अमितासनिकस्य (अबद्धासनस्य मुहर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि स्यात् प्राणिवधः / अनेकानि वा आसनानि सेवमानस्य पुनः-संस्तारकपात्रादीनां आतपे-अदातुः पुनः ईयादिसमितिषु-अनुपयुक्तस्य-पुनः वारं वारं अप्रतिलेखनाशीलस्य-दृष्टवा-अप्रमार्जनशीलस्य.रजोहरणादिना-तथारूपाणां ईदृशस्य साधोः संयमो दुराराधो भवति // 5 // मू-पा-अणायाणमेयं अभिग्गहियसिज्जासणियस्स, उच्चाकुइयस्स, अहाबंधिस्स मियासणियस्स आयावियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमज्जणासीलस्स तहा तहा णं संजमे सुआराहए भवइ // 19 // 54 // व्याख्या-आदानमुक्त्वा---अधुना--अनादानमाह-कर्मणां दोषाणां वा अनादानं अकारणं एतत्-अभिगृहीतशय्यासनिकत्वं-उच्चाकुचशय्याकत्वं सप्रयोजन पक्षमध्ये सकृच्च शय्याबन्धकत्वमिति तदेव द्रढयति-अभिगृहीतशय्यासनिकस्य पुनः-उच्चाकुचिकस्य पुनः-अर्थाय बन्धिनः पुनः मितासनिकस्य पुनः---आतापिनो वस्त्रादेरातापे दातुः पुनः समितस्य-समितिषु दत्तोपयोगस्य पुनःअभीक्ष्णं अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनशीलस्यईदृशस्य साधोः तथातथा तेन तेन प्रकारेण संयमः सुखाराध्यो भवति // 54 // मृ-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंधाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ जा॥४६॥
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy