________________ श्री कल्प- मुक्तावल्या भीसमा चारि // 463 // तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं अशनाचाहारयितुं विहारभूमि विचारभूमि वा गन्तुं स्वाध्यायं वा कायोसर्ग वा कर्तुं स्थानं वा वीरासनादिकं स्थातुं तदेव सर्व भणितव्यं स चेत् नो-अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे-यावत् स्थानं वा स्थातुं // 52 // मू-पा-वासावास पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहियसिज्जासणिएणं हुत्तए / आयाणमेयं अणभिग्गहियसिज्जासणियस्स, अणुच्चाकुइयस्स अणहाबंधियस्स अभियासणियस्स अणातावियस्स असमिवस्स अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अषमज्जणासीलस्स तहा तहा ण संजमे दुराराहए भवइ // 53 // ___व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां वा-तथा अनभिगृहीतशय्यासनिकेन (अर्थात्-न अभिगृहीता- शय्या आसनश्च येन तथाभूतेन साधुना भवितुं न कल्पते-कुतः वर्षासु मणिकुट्टिमे ऽपि पीठफलकादिग्रहवतैव भाव्यं अन्यथा शीतलायां भूमौ कुन्थ्वादिविराधनोत्पत्तेः // तथा कर्मणां दोषाणां वा आदान-उपादानकरणं एतद् अनभिगृहीत शय्यासनिकत्वं तदेव द्रढयति-अनभिगृहीतशय्यासनिकस्य–पुनः अनुच्चाकुचिकस्य (उच्चा हस्तादि यावत् येन पिपीलिकादेवधो न स्यात्-सादेर्वा दंशो न स्यात् / अकुचाकुचपरिस्पन्दे-इति वचनात्-परिस्पन्दरहिता निश्चलेति यावत्-ततः कर्मधारयसमासे कृते एवंविधा शय्या कम्बिकादिमयी सा न विद्यते यस्य सः-अनुच्चाकुचिको नीचसपरिस्पन्दशय्याकस्तस्य तथाविधस्य पुन:-अनर्थकबन्धिनः // 463 //