________________ श्रीकल्पमुक्तावल्यां श्री समा चारि // 449 // व्याख्या-चतुर्मासकं स्थितस्य साधोः साव्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा कल्पते तस्य आरामस्याधो वा यावत्-वृक्षमूले वा-उपागन्तुं नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं आरामादिस्थितस्य साधो यदि वर्षा नोपरमति तदा किं कार्यमित्याह कल्पते तस्य साधोः पूर्वमेव विकटं-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रं निर्लेपीकृत्य सम्प्रक्षाल्य-एकस्मिन्. पार्चे पात्राद्यपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेघे सावशेषे-अनस्तमिते सूर्ये यत्रैव-उपाश्रयः तत्रैव उपागन्तुं परं नो तस्य कल्पते तां रात्रि वसतेर्बहिः गृहस्थगृहे एव अतिक्रमयितुं एकाकिनो हि बहिर्वसतः साधोः स्वपरसमुत्थाः बहवो दोषाः सम्भवेयुः साधवो वा वसतिस्था अधृतिं कुर्युरिति // 36 // मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्झिय बुटिकाए निवइज्जा कप्पइ से अहे आरामंसि वा जाव उवागच्छित्तए // 37 // व्याख्या-चतुर्मासकं स्थितस्य साधोः साध्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य स्थित्वा स्थित्वा वृष्टिकायः निपतेत-तदा कल्पते तस्य आरामस्याधो वा यावत. उपागन्तुम-अग्रेतनसूत्रयुग्मसंबन्धार्थ पुनरेतसूत्रम् // 37 // मू-पा-तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एगओ चिट्टित्तए तत्थ नो कप्पड़ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं य एगओ चिद्वित्तए तत्थ नो कप्पइ नो दुण्हं निग्गंथीणं एगाए य निम्गंथीए // 44 //