________________ श्रीकल्प मुक्तावल्यां श्री समाचारि // 439 // एकभुक्तेन चेत्कर्तु, वैयावृत्यं न चेशकाः, द्विरपि भुञ्जते यस्मात्-वैयावृत्त्यं तपो महत् // 25 // __आचार्यवैयावृत्यकरान् वा-ग्लानवैयावृत्त्यकरान् वा यावद् व्यञ्जनानि-बस्तिकुर्चकक्षादिरोमाणि न जातानि 6 तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञ्जानयोर्न दोषः वैर्यावृत्त्यमस्यास्ति, वैयावृत्त्यकरस्त्वसौ, ततो द्वन्द्वे द्वयोरेव, द्विभुक्तौ न च दोषता // 3 // ___ अर्थात्-आचार्योपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणाश्च द्विभॊजनेऽपि न दोषः इत्यर्थः (20) मू-पा-वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे जं-से पाओ निक्खम्मपुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय संपमज्जिय से य संथरिज्जा कप्पइ से तदिवस तेणेव भत्तटेणं पज्जोसवित्तए / से य नो संथरिज्जा एवं से कप्पइ दुच्चं पि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा // 21 // व्याख्या-चतुर्मासकं स्थितस्य-एकान्तरोपवासिनः साधोरयमेतावान् विशेषः-यत स प्रातः निष्क्रम्य गोचरचर्यार्थ प्रथममेव विकटं प्रासुकाहारं भुक्त्वा तक्रादिकं पीत्वा पात्रं संलिख्य निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य स यदि संस्तरेत्-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं-अथ यदि न संस्तरेत् न्यूनत्वात्-तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थम्वा पानार्थम्वा निष्क्रमितुम्वा प्रवेष्टुं वा // 21 // 2 समर्थाः व्या // 439 //