________________ श्रीकल्पमुक्तावल्यां श्री समाचारि 437 // ततो गुरुराह-यत् स ग्लानःप्रमाण वदति तत्प्रमाणेन तद्विकृतिजातं ग्राह्य त्वया ततः स च वैयावृत्त्यकरादिः विज्ञापयेत् -कोऽर्थों ? गृहस्थपाश्र्वाद्याचेत्-विज्ञप्तिधातुरत्र याञ्चायाम् स वैयावृत्त्यकरो याचमानो लभेत तद्वस्तु क्षीरादि अथ च तद्वस्तु प्रमाणप्राप्तं पर्याप्तं जातं ततश्च तत्र भवतु-इति पदं साधुप्रसिद्ध इच्छमिति शन्दस्यार्थे तथा (अलाहित्ति) मृतं इत्यर्थे-इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात्-ततो गृही ब्रूते अथ किमाहुर्भदन्ताः? कुतो भवन्त मृतमिति ब्रुवते इत्यर्थः? ततः साधुराह एतावतैवार्थोऽस्तीति ततः स्यात् कदाचित्-णं इति वाक्यालकतौ एवं वदन्तं साधु प्रति परो गृहस्थो वदेव-यत् हे आर्य ? साधो प्रतिगृहाण पश्चाद् ग्लानभोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे भुञ्जीथाः पक्कामादिकं पास्यसि पिबेः क्षीरादिकं कचित्-पाहिसि त्ति स्थाने दाहिसि त्ति दृश्यते तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं एवं तेनोक्ते तत् कल्पते अधिकं प्रतिग्रहीतुम् न च पुन ग्लनिनिश्रया गायात् स्वयं ग्रहीतुं ग्लानाद्यर्थ याचितं मण्डल्यां नानेयमित्यर्थः। मृ-पा-वासावास पज्जोसवियाणं अत्थि ण थेराणं तहप्पकुलाई-कडाई पत्तियाई थिज्जाई वेसासियाई सम्मयाई बहुमयाई अणुमयाइं भवन्ति तत्थ से नो कप्पइ अदक्खुवइत्तए-अस्थि ते आउसो ? इमं वा इमं वा ? से किमाहु भंते ? / सडूढीगिही गिण्हइ वा, तेणियं पि कुज्जा // 73 // 19 // व्याख्या-चतुर्मासकं स्थितानां--अस्त्येतत् णं इति प्रागवत्-स्थविराणां तथाप्रकाराणि-अजुगप्सितानि कुलानि-गृहाणि-किंविशिष्टानि तैरन्यैर्वा श्रावकीकृतानि-तथा प्रीतिकराणि प्रीतौ दाने वा स्थैर्यवन्ति तथा // 437 //