________________ श्रीकल्प मुक्तावल्यां // 423 // व्याख्या-यतः कारणात् प्रायेण-अगारिणां गृहस्थानां अगाराणि गृहाणि कटयुक्तानि धवलितानि तृणा श्री ऋष दिभिराच्यदितानि वृत्तिकरणादिना गुप्तानि विषमभूमिभङ्गात् धृष्टानि तया पाषाणखण्डेन घृष्टवा सुकुमाली-II कृतानि तथा सौगन्ध्यार्थं धूपैर्वासितानि कृत प्रणालीरुपजलमार्गाणि सज्जितखालानि एवंविधानिआत्मार्थ आत्मनिमित्तं गृहस्थैः कृतानि परिकर्मितानि परिभुक्तानि जनै व्यापृतानि परिणामितानि अचित्तीकृतानि ईशानि यतो गृहाणि भवन्ति तेनार्थेन--तेन हेतुना हे शिष्य 1 एवं उच्यते / श्रमणो भगवान् महावीरः वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते पर्युषणामकरोत् / ____यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः // 2 // मू-पा-जहा णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कंते वासावासं पजोसवेइ, तहा गं गणहरा वि वासाणं सवीसइराए मासे विइक्कते वासावासं पज्जोसविन्ति // 3 // व्याख्या-यथा-श्रमणो भगवान् महावीरः वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते पर्युषणामकरोत्तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते पर्युषणां चक्रुः // 3 // म्-पा-जहा णं गणइरा वासाणं जाव पज्जोसविन्ति, तहा णं गणहर सीसा वि वासाणं जाव पज्जोसविन्ति / / व्याख्या-यथा-गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः तथा गणधरशिष्या अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः // 4 // // 42 //