________________ श्री कल्प भी ऋषभ मुक्तावल्या चरित्रम् // 408 // छाया-ताः इमाः शाखाः सन्ति कानि तानि कुलानि एवं तानि कथ्यन्ते तद्यथा ब्रह्मलीयकुलम् 1 वत्सलीयकुलम् 2 वाणिज्यकुलम् 3 प्रश्नवाहनककुलम् 4 मू-पा-थेराणं सुहिय सुप्पडिबुद्धाणं कोडिय काकंदगाणं वग्यावच्चसगत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था-तद्यथा छाया-व्याघ्रापत्यगोत्रोत्पनकौटिकात्- तथा कार्कदिकोपनामवतः स्थविरसुस्थितात तथा स्थविरसुप्रतिबुद्धात् इमे पश्च स्थविरशिष्याः पुत्रोपमाः प्रसिद्धा आसन्-तद्यथा स्थविर आर्यइन्द्रदिनः-स्थविरप्रियग्रन्थः काश्यपगोत्रोत्पन्न: स्थविर विद्याधरगोपालः स्थविर ऋषिदत्तः-तथा स्थविर अहंइत्तःइंद दिन्ने थेरे, पियगंथे पियगंथे, त्ति ॥श्री प्रियग्रन्थसूरेः सम्बन्धः।। अजमेरुपुराभ्यण, सुभटपालभूपतेः / आसीद्वर्षपुरं रम्य, वास्तोष्पतिपुरोपमम् // 1 // त्रिंशतैर्जिनचैत्यै-यत्परेषाश्च चतुश्शतैः / अष्टादशशतैरेवं, विप्रगेहै स्तथोत्तमैः // 2 // षत्रिंशै वणिजां गेहै, रुधानैश्च नवशतैः / दिशतैः परितः कूपैः, सप्तशतसरोवरैः // 3 // सप्तशतदानशालाभिः, शोभमानं समन्ततः / आसीद्यत्र न जानन्ति, दुःखं पौरजनाः कदा // 4 // एकदा नगरे तत्र, श्रीप्रियग्रन्थ सूरयः / आययु धेरणी रम्यां, पुनानाशक्तिशालयः // 5 // // 408 //