________________ श्री ऋषभ चरित्रम् श्रीकल्पमुक्तावल्यां 11391 // भावार्थः। नो दुष्करं त्रोटनमाम्रलुम्ब्या,नो दुष्करं सर्वपनर्तितायाम् / मन्ये च तददुष्करमार्यताश्च, कान्तारणे यद्विजयी मुनिः सः॥४४॥ दरत्यामद्रौ रहसि च वने सन्ति प्रद्युम्न बाणाञ्जतुकामं प्रभव इह वै विश्वमान्याः कियन्तः // रम्ये हर्ये सरसमशनं कामिनिकेलिलीला, मश्नन् पश्यन्-रतिपतिजयी स्थूलभद्रः किलैकः // 45 // दीप्ते वहौ महितमहिमा यो विशन् नैव दग्धः, खङ्गाग्रे यः प्रगतिममयो नैव भिन्नः प्रकुर्वन् / कृष्णाङ्गाहेचिलमनुविशन् यो न दष्टः प्रतापी, गर्भागारे स्थिति मनुभजन्-चाञ्जनीये न चाक्तः // 46 // काम्या वेश्या यकपदरता भोजनं पइरसीयम् , कैलासामं खकमुपगतं धाम देहोऽति मञ्जः / नूत्नावस्था जलदसमयो यो जिगायादरेण, मारं वन्दे मुनिमहमिमं स्थूलभद्रं महान्तम् // 47 // मुख्यं शस्त्रं मनसिज ? तवा साङ्गना रङ्कुनेत्री, वीराश्चैवं शशिमधुपिकाः पञ्चमो विश्वमोही / ब्रह्मा विष्णु हेरबुधमुखाः सेवकाः केऽपरे ते, नष्टाश ? त्वं तदपि मुनिनाऽनेन हाहा हतो रे // 48 // दृष्टो दृष्टया स्मर ? मुनिरसौ नन्दिषेणादिवच्च, ज्ञातं नालं परमिह मुनिमा रणा विजित्य / नेमि जम्बू रपि धनपति धीरसौदर्शनो य, स्तेषां मध्ये भवति विदितस्तुर्य एष प्रतापी // 49 // 1 अञ्जनागारे निवसन्नपि न चाक्तः // 391 //