________________ श्रीकल्पमुक्तावल्या श्रीऋषभ चरित्रम् // 382 // भावार्थः॥ मासं पादपोपगता, सर्वेऽपि च सर्वलब्धिसंपन्नाः। वज्रऋषभसहननाः, समचतुरस्त्रसंस्थानाश्च // 1 // मू-पा-समणे भगवं महावीरे कासवगुत्ते णं / समणस्स भगवओ महावीरस्य कासवगुत्तस्स अजमुहम्मे धेरे अंतेवासी अग्गिवेसायणगुत्तेणं थेरस्स णं अजमुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबू नामे थेरे अंतेवासी कासवगुत्ते // 5 // ___ व्याख्या-श्रमणो भगवान् महावीरः काश्यपगोत्रः श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य आर्य सुधर्मा स्थविरः शिष्यः अग्निवैश्यायनगोत्र:तथाहि- श्रीवीरपट्टपूर्वाद्रि-भास्करः पञ्चमोऽजनि / श्रीसुधर्मगणाधीशः, शासन नभोघनः // 1 // कुल्लागसग्निवेशेऽस्ति, धम्मिलाभिधवाडवः / भदिला तस्य भार्याऽऽसीत्तयोरेप सुतोत्तमः // 2 // चतुर्दशमहाविद्या-पारगोऽयङ्गणीश्वरः / परिव्रज्यां ललौ धीमान् , पश्चाशद्वत्सरान्तिमे // 3 // त्रिंशद्वर्षाणि शुद्धात्मा, वीरसेवापवित्रितः / वीर निर्वाणतः पश्चाद्, द्वादशवत्सरान्तिमे // 4 // जन्मतो द्वयक२८ वर्षान्ते, लेभे केवलमुज्ज्वलम् / केवलित्वं ततश्चाष्टौ, वर्षाणि परिपाल्य च // 5 // शतवर्षप्रमाणायुः, सज्जनाबलिवन्दितः / स्वपदे स्वामिनं जम्बू , संस्थाप्यालभतामृतम् // 6 // स्थविरस्य-आर्यसुधर्मणः-अग्निवैश्यायनगोत्रस्य, आर्यनम्बू नामा स्थविरः, शिष्यः काश्यपगोत्र: // श्रीजम्बूस्वामिवृत्तमित्थम् // CREACOC રેટરી