________________ श्रीकल्प श्री ऋषभ मुक्तावल्यांक चरित्रम् // 3815 व्याख्या--सर्वे-एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावीरस्य एकादशापि गणधराः कीदृशाःद्वादशाङ्गिन--अर्थात् आचारङ्गादिसिद्धान्त, दृष्टिवादान्तपारगाः, आसंस्ते च महाभागाः, स्वयं तत्कर्तृहेतुतः // 1 // पुनः कीदृशाः चतुर्दशपूर्ववेत्तारः-ननु द्वादशाङ्गित्वकथनेनैव-चतुर्दशपूर्वित्वं तु लब्धमेव. पुनरेतदुपादानं किमर्थमिति चेदाह / तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यद्योतनार्थम्-तथा तेषां पूर्वाणां प्राधान्यन्तु-पूर्व प्रणय त्वात्-तथा नानाविद्यामन्त्राद्यर्थमयत्वात् तथा महाप्रमाणत्वाच्च तथा द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह // समस्तगणिपिटकधारकाः-तत्र पिटकं द्वादशाङ्गी-अर्थात् सूत्रत-अर्थतश्च द्वादशाङ्गीधारका-नतु देशतः स्थूलिभद्रवत्-एवम् राजगृहे नगरे-अपानकेन मासिकेन भक्तेन भक्तप्रत्याख्यानेन पादोपगमनानशनेन मोक्षं गताः यावत् सर्वदुःखप्रक्षीणाः तथा स्थविर इन्द्रभूतिः- स्थविर आर्यसुधर्मा च सिद्धिं गते महावीरे सति पश्चाद् द्वावपि स्थविरौ निर्वाण प्राप्तौ--तत्र जीवति स्वामिनि नव गणधराः सिद्धाः इन्द्रभूतिसुधर्माणौ तु भगवति निर्वृते निर्वृतौ-तथा ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थःअन्येऽवशिष्टा गणधारिणो ये, नि:शिष्यभावा मरणावसाने, स्वांस्ते गणान् स्वामिसुधर्मराजे, संस्थाप्य निर्वाणपदं समीयुः।। यदाहुः-मासं पाओवगया, सव्वेऽवि अ सव्वलद्धिसंपन्न। / वज्जरिसहसंघयणा, समचउरंसा य संठाणा // 1 // 4 // Bરે