SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां श्री ऋषम // 377 // स्तूपानि रत्नदृब्धानि, त्रीणि कारयते हरिः, जिनस्यैक गणेशानां, मुनीनाश्च पृथक् पृथक् // 26 // नन्दीश्वरप्रमुख्येषु, द्वीपेषु सेन्द्रनिर्जराः, अष्टाह्निकमहश्चकु, स्ततः विस्तारपूर्वकम् // 27 // ततः स्वानि विमानानि, दिव्यानि भेजिरे सुराः, स्वासु स्वासु सभाष्वेवं, जिनदाढा महोज्ज्वलाः // 28 समुद्गकेषु वज्रस्य, प्रक्षिप्योत्तमरत्नवत् , गन्धमाल्यादिभिनित्यं, श्रद्धया पूजयन्ति ते // 29 // मू-पा-उसभस्स णं अरहओ कोसलियस्स जाव सव्वदुक्खप्पहीणस्स तिण्णि वासा अद्धनवमा य मासा विइक्कता तो वि परं एगा सागरोवमकोडकोडीतिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणिया विइक्कंता, एयम्मि समए समणे भगवं महावीरे परिणिचुए / तओ वि परं नववाससया विइक्कंता, दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ // 228 // व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य यावत् सर्वदुःखप्रक्षीणस्य त्रीणि वर्षाणि सार्दाश्चाष्टौ मासा:व्यतिक्रान्ताः ततः परं एका सागरोपमकोटाकोटी-कीदृशी त्रिवर्षसा ष्टमासधिकैः द्विचत्वारिंशद्वर्षाणांसहस्त्रैः ऊना व्यतिक्रान्ता- एतस्मिन् समये श्रमणो भगवान् महवीरो निर्वृतः ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि दशमस्य च वर्षशतस्य- अयं अशीतितमः सम्वत्सरः कालो गच्छति (2) // 228 // इति श्रीयुगाधीशपरमपावनश्रीऋषभदेवजिनातिप्रशंसनीयजीवनचरित्रं समाप्तम् // // चरित्रमिदं शिवाय सन्तु जगतः // भवन्तु लोका अपि तादृशाः // इति तमेवाधं विभुं प्रार्थये // इति श्रीतपागच्छनभोनभोमणि शासनसम्राट् जङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारकमहाक्रियोदारकसक // 377 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy