________________ श्री कल्प मुक्कावल्यां श्री ऋषभ चरित्रम् // 334 सयसहस्सं सामण्णपरियागं पाउणित्ता, चउरासीइं पुन्चसयसहस्साई सघाउयं पालइत्ता खीणे वेयणिज्जाऽउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुविइकंताए, तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तच्चे मासे पंचमे पक्खे-माहबहुले तस्स णं माहबहुलस्स [ ग्रन्थाग्रं 900 ] तेरसीपक्खे णं उप्पिअट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धिं, चउद्दशमेणं भत्तण अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुष्वण्हकालसमयंसि संपलियंकनिसण्णे कालगए विइक्कते जाव सव्वदुक्खप्पहीणे // 227 // ___व्याख्या--तस्मिन् काले तस्मिन् समये ऋषभः अर्हन् कौशलिकः विंशतिपूर्वलक्षान् (2000000) पूर्व कुमारावस्थायां उषित्वा स्थित्वा त्रिषष्टिपूर्वलक्षान् (6300000 पूर्व ) राज्यावस्थायामुषित्वा ध्यशीतिपूर्वलक्षान् ( 8300000 पूर्व ) गृहस्थावस्थायां उषित्वा एक वर्षसहसं ( 1000 पूर्व) छद्मस्थपर्यायं पालयित्वा एकं पूर्वलक्षं वर्षसहस्रेणोनं केवलिपर्याय पालयित्वा प्रतिपूर्ण पूर्वलक्ष (100000 पूर्व) चारित्रपर्याय पालयित्वा चतुरशीतिपूर्वलक्षान् (8400000 पूर्व ) सर्वायुः पालयित्वा क्षीणेषु वेदनीयायुर्नामगोत्रेषु सत्सु अस्यां-अवसर्पिण्याम् सुषमदुष्षमनामके तृतीयारके बहुव्यतिक्रान्ते सति त्रिषु वर्षेषु साढेषु अष्टसु मासेषु शेषेसु सत्सु योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः तस्य माघबहुलस्य त्रयोदशीदिवसे अष्टापदशैलशिरस्योपरि दशभिः अनगारसहजैः सार्द्ध चतुर्दशभक्तपरित्यागाद् उपवासषट्केन अपानकेन (जलरहितेन ) अभिजिनामके नक्षत्रे चन्द्रयोगे, उपागते सति पूर्वाह्नकालसमये पल्यङ्कासनेन निषण्णः कालगतः यावत् सर्वदुःखानि प्रक्षीणानि // 227 // // 374aa