SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां // 365 // श्री ऋषभ चरित्रम् मू-पा-जाव अप्पाणं भावमाणस्स एगं वाससहस्सं विइक्कतं / तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले-तस्स णं फग्गुणबहुलस्स एक्कारसीपक्खे णं पुन्वण्हकालसमयंसि पुरिमतालस्स नगरस्स बहिया सगडमहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे, अहमेणं भत्तेण अपाणएणं आषाढाहिं नक्ख तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ // 212 // व्याख्या-यावत्-आत्मानं भावयतः- एकं वर्षसहस्र व्यतिक्रान्तं ततश्च योऽसौ शीतकालस्य चतुर्थों मासः सप्तमः पक्षः फाल्गुनस्य कृष्णपक्षः तस्य फाल्गुनबहुलस्य एकादशी दिवसे पूर्वाह्नकालसमये पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात्-शकटमुखनामके-उद्याने न्यग्रोधनामकवृक्षस्य -अधः-अष्टमेन भक्तेनअपानकेन (जलरहितेन ) उत्तराषाढायां नक्षत्रे चन्द्रयोगे-उपागते सति ध्यानस्य मध्यभागे वर्तमानस्य-अनन्तं केवलमुत्पन्नं यावत्-जानन् पश्यंश्च विहरति ( 212 )विनीताया महापुर्याः, पुरिमतालसंज्ञके, शाखापुरे महोद्याने, चोत्पन्नं केवलं प्रभोः // 1 // व पितो धराधीशः, केनाप्यागत्य सत्वरम् , चक्रमायुधशालाया-मुत्यन्नमितरेण च // 2 // द्वयवर्द्धापनं युगपच्छ्रुत्वा च भरतो नृपः, दध्यौ पूर्वञ्च किं पूज्यो, जनको वाऽथ चक्रकम् // 3 // उभय लोकफलप्राप्ति-दायिनि जनकेऽर्चिते, इह लोकफलप्राप्ति, चक्रं पूजितमेव च // 4 // इति विवेकबुध्याऽसौ, विचार्य भरतो नृपः, पितृवन्दन हेत्वार्थ, प्रथममुद्यतोऽभवत् // 5 // 5365 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy