________________ 113 श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् // 352 / उषित्वा त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां वसति-त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायाश्च वसन् सन् लिखनादयः (लेखमुख्याः) तथा गणितप्रधानाः- तथा शकुनरुतपर्यवसानाः (पक्षिशब्दान्ताः) एवंरुपाः-द्वासप्ततिः(७२) पुरुषकलाः (लेखादिका द्वासप्ततिकलाः- ताश्वेत्थम् // लिखितं 1 गणितं 2 गीतं 3 नृत्यं 4 वाद्य च 5 पठन 6 शिक्षे च 7 ज्योतिश्छन्दो 8 ऽऽलङ्कृति 10 व्याकरण 11 निरुक्ति 12 काव्यानि 13 // 1 // कात्यायनं 14 निघण्टुः 15 गजारोहण 16 तुरगारोहण 17 तच्छिक्षा 18 शास्त्राभ्यासः 19 रसवादः 20 मन्त्रवादः 21 यन्त्रवादः 22 विषवादः 23 खन्यवादः 24 गन्धवादः 25 // प्राकृतम् 26 संस्कृतम् 27 पैशाचिकाः 28 अपभ्रंशाः 29 स्मृति 30 पुराणानि 31 विधिः 32 सिद्धान्ताः 33 तर्कः 34 वैदकम् 35 वेदाः 36 आगमः 37 संहिता 38 इतिहासः 39 सामुद्रिकविद्या 40 विज्ञानविद्या 41 आचार्य विद्या 4aa रसायनं 43 कपटम् 44 विद्यानुवादः 45 दर्शनसंस्कारः 46 धूर्तसम्बलकम् 47 मणिकर्म 48 तरुचिकित्सा 49 खेचरीकला 50 अमरीकला 51 इन्द्रजालम् 52 पातालसिद्धि 53 यन्त्रकम् 54 रसवतीक 55 सर्वकरणी 56 प्रासादलक्षणं 57 पणः 58 चित्रोपल: 59 लेपः 60 चर्मकर्म 61 पत्रच्छेदः 62 नखच्छेदः 63 पत्रपरीक्षा 64 वशीकरणम् 65 काष्ठघटनम् 66 देशभाषा 67 गारुडविद्या 68 योगाङ्गानि 69 धातुकर्माणि 70 केवलिविधि 71 शकुनशब्दज्ञानम् 72 इति द्विसप्तति पुरुषकलाः अत्रलिखितं हंसलिप्याद्यष्टादशलिपिविधानम् तच्च दयालुना प्रभुणा दक्षिणकरेण बाह्या उपदिष्टम् गणितानुक्रमस्तु एवम् // 3524