________________ श्रीकल्पमुक्तावल्यां // 313 // श्री नेमिनाथ चरित्रम् 64 रुक्मणीप्रमुखा गोपी, ईपयामास केशव / विशवं क्रीडया नेमिः, कार्यः पाणिग्रहोत्सुकः // 27 // तत:-काश्चित्केसरसारनीरनिकरैराछोटयन्ति प्रभुम् / काश्चिद् बन्धुरपुष्पकन्दुकभरै निघ्नन्ति वृक्षस्थले / / काश्चित्तीक्ष्णकटाक्षलक्षविशिखै विध्यन्ति नोक्तिभिः / काश्चित्कामकलाविलासकुशला विस्मापयाञ्चक्रिरे // 28 // वसन्ततिलका- काश्चित्प्रभु विमलकेसरनीरपूरै, राच्छोटयन्ति च पराः सुमकन्दुकेन / निघ्नन्ति काश्च नयनै बहु ताडयन्ति, विस्मापयन्ति, च परा वरनर्मकेल्या // 28 // सौवर्णरम्यकलशान् वरगन्धनीर, भूत्वा च काश्च वनिताः प्रभुनेमिनाथम् / तन्नीर निझरभरै व्यथितुं सयत्ना, यावच्च तावदभवत्सुरगीनेभोऽन्तः // 29 // मुग्धाः स्थ यूयमखिलाः सुरशैलमूनि, तुर्याङ्गयोजनमुखैश्च सहस्नकुम्भैः। इन्द्र भृशं स्नपित एष च बाल्यकाले, व्यग्रोऽभवन्न च प्रभुः किमु चेष्टया वः // 30 // अनुष्टप्-भगवांश्च ततो नेमि, निर्विकारोऽपि लीलया, आच्छोटयंति ताः सर्वा, हरिश्चापि 31 // इषद्धास्य मुखो नेमिः, सुगन्धसुमकन्दुकैः, ताडयति तथैवैताश्चश्वलाकृति सुन्दराः // 32 // इन्द्रवज्रा-वाढं मुदा नर्मवचोभिरेताः, केलिञ्जलीयां प्रमदा विधाय / आगत्यतीरे प्रभु नेमिनाथं, स्वर्णासनीकृत्य च तस्थिरेऽलम् // 33 // तत्र। रुक्मिणी जगौकन्याऽभिरक्षाञ्च कथङ्करिष्ये, मन्ये ततो नोद्वहने विचारः / बन्धुः समर्थों विदितस्तवैष, द्वात्रिंशसाहस्त्रवधूविवोढा // 34 // // 31 //