SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्री नेमि नाथ चरित्रम् श्रीकल्प-18 कृत्वा अस्मिभेव जम्बुद्वीपे द्वीपे भरतक्षेत्रे सौर्यपुरे नगरे समुद्रविजयस्य राज्ञः-भार्यायाः शिवाया देव्याः | मुक्ता विना कुक्षौ पूर्वापररात्रकालसमये-मध्यरात्रौ चित्रायां गर्भतया उत्पन्नः-सर्व तयैव स्वमदर्शनं पितृवेश्मनि द्रव्यसं॥३१॥ हरणादिवर्णनं अत्र भणितव्यम् // 171 // मू-पा-तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे-सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपच्खेण नवण्डं मासाणं बहपडिपण्णाणं जाव चित्ताहि नक्खत्ते णं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया जम्मणं समुद्दविजयाभिलावेणं नेयव्वं, जाव तं होउणं कुमारे अरिहनेमी नामेणं // 172 // व्याख्या-तस्मिन् काले तस्मिन् समये-अहन्-अरिष्टनेमिः-योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः श्रावणशुद्धः तस्य श्रावणशुद्धस्य पञ्चमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु यावत् चित्रानक्षत्रे चन्द्रयोगे-उपागते सति अरोगा शिवा-अरोगं दारकं प्रजाता-जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्य:यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्नेति॥तत्र।। समुद्रविजयो राजा, पुत्रजन्ममहोत्सवम् , चकारातिमहानन्दः, कुलक्रमेण सौष्ठवम् // 1 // द्वादशदिवसे चैवं, सम्बन्धिज्ञातिवर्गकान् , आमन्त्र्य भोजयामास, प्रीत्या वारिधिवैजयः // 2 // ज्ञातिवर्गान् समुद्दिश्य, प्रोवाच१ विमलाशयः, हे देवानुप्रिया वृत्तं, शृणुध्वं प्रीतिपूर्वकम् // 3 // गर्भस्थे पुत्ररत्नेऽस्मिन्-रिष्टनेमि शिवा प्रमः, स्वप्नेऽपश्यत्ततोऽरिष्ट-नेमीति नाम संव्यधात् // 4 // मङ्गलसूचकोऽकारोऽरिष्टोऽमङ्गलवाचकः, तदने च ततोऽकारो, नियुक्तो भद्रकारकः // 5 // 1 रत्नमयों चक्रधारामिति B8 // 31 // 號法
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy