________________ कल्पमुक्का वल्यां प्रथम व्याख्याने दशकल्प अधिकारः परमदयालु महातपस्वि श्रीमत्पंन्यासदयाविमलसद्गुरुचरणसरोजचञ्चरीकायमाणातिपावन चारित्रचूडामणि श्रीमत्पन्यास सौभाग्यविमलसद्गुरुमहानुकम्पयैव कल्पसूत्रस्य कल्पमुक्तावलिटीकारम्भणे भविष्यति चिन्तितमनोरथफलवानिति // तथाऽत्र स्क्खलना ध्वनि गुणैकपक्षपातिभिर्विद्वद्भिः क्षन्तव्या वोधनीया च सेति / // अथ सूत्रारम्भोपन्यासः॥ इह हि गुरुपरम्परया प्रत्यूहादिदोषरहिते-गुवादिष्टे क्षेत्रे चातुर्माससमये विराजमानाः साधवः परमपवित्रेपुण्यपर्युषणपर्वणि विघ्नविच्छेदाय परमाभ्युदयाय च मङ्गलार्थ पश्चवासरावधिवाचयन्ति सिद्धान्तरहस्यभूतं परमोत्कृष्ट कल्पसूत्रम् नवमिर्व्याख्यानै रिति / / तत्र च कल्प्यन्ते विधीयन्ते पञ्चमहाव्रतधारिणां साधूनामाचाराः कर्तव्यव्यवहारा अनेनेति कल्पः-नियम इति तस्य च कल्पस्य दशविधभेदा निर्दिश्यन्ते ते च-इत्थम् // आचेलक्कु 1 देसिअ 2 सिज्जायर 3 रायपिण्ड 4 किडकम्मे 5 वय 6 जिट्ठ 7 पडिक्कमणे 8 मासं 9 पज्जोसवणाकप्पे // 1 // इति // अथ व्याख्या // आचेलकभिति-चेलम्-वस्त्रम्-न चेलम् अचेलम्-अचेलमेव-अचेलकम्-तस्य भावः-आचेलक्यम्॥ वासोरहितत्त्वमिति स्फुटार्थः // नन्वचेलकत्वङ्केषामिति शङ्कायामाह // कश्चिज्जिज्ञासुरत्रार्थे, शङ्कते धुद्धिपूर्वकम् / केषां तद्धि च विज्ञेयं, वासोराहित्यमुच्यताम् // 1 // आदिनाथस्य वीरस्य, ज्ञेया वासोविहीनता / विगते देवदृष्ये च, शक्रदत्तेऽब्दकान्तरम् // 2 // द्वाविंशति जिनानान्तु, यावज्जीवं सचेलता। देवदृष्यं हि तेषां वै, स्कन्धेषु विद्यते यतः॥३॥ // 4 //