SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प HTS अधिकार यति मुदमर्हताम्-यद्धि-सर्वथा-विसम्बाददोषरहितत्त्वे सति सत्यार्थबोधहेतु-त्वं स्यादिति-एवं स्थिते च-अल्पाक्षरत्वे सतिबर्थजनकत्वंसूत्रत्वमिति-अथवा सूत्र्यते-उत्पाद्यते सदसदपथगमनविवेकज्ञानमनेनेति सूत्रम्-(अथवा) सूत्रयति लोकान् स्व स्वकर्मणि प्रवर्तयतीति सूत्रम्-इति सूत्रलक्षणसदर्थ घोतयतः सर्वसूत्रलब्धप्रतिष्ठस्यास्य कल्पसूत्रस्य प्रौढार्थो महिमा च कस्य खलु सकर्णकस्य श्रवःपुटंना-पावयदिति सर्वस्येति-अपावयदेव // पुरिमचरिमाणकप्पो, मंगलं वद्धमाणतित्थंमि / इह परिकहिआ जिणगण-हराइ थेरावली चरित्तं // 11 // // किञ्चिद्वक्तव्यम् // अयि मतिपेशलाः? श्रुतकौशलाः? सुधियः? यद्यपि सूत्रशिरोमणेरस्यकल्पसूत्रस्य सन्ति पूर्वाचार्यकृता अति गम्भीरा बहवः टीका उपलभ्यन्ते च किञ्च कासाञ्चित बहु विवरण तया-कासाश्चिदति कठिन तया झटित्यर्थावबोधाभाव तया सुकुमार बुद्धीनां तदर्थावगमो दुष्कर एव इत्यालोच्य तेषामपि भवत्वनायासेन बोधो मयाऽपि पूर्वाचार्य परम्परयैवाति संक्षिप्तया-सरलतया च अस्य सूत्रस्य विशदार्थः सरलपद्यरूपेण विविच्यते-इत्यवधार्यम् // // तद्विवेचने गुरुकृपैव बीजमित्याह // भो भव्याः? इह हि परक्लेशकदम्बसमवहरणबद्धकक्षसुरतरुधनधराचिन्तामणिनिभसद्गुरुकृपैव, तयैव च मन्दोडपि सकलागमरहस्यावबोधे प्राञ्चति प्रौढिमानम्-विज्ञातमेवेति विज्ञैःअपि च लभते पाटवतां मूकोऽपि, गगनाङ्गणचुम्बिगिरिवरकूटानि लङ्घयते पंगुरपि विगतनयनोऽपि सनयनो भवति मन्ये च तत्रापि गुर्वनुकम्पैव हेतु:-अपि च लोके यथर्तुराजे वसन्तेसहृदयश्रवणानन्ददायिमेदुरस्वरानुच्चरन्ति पिकास्तत्र च रसाल मञ्जरीकारणम्-यथा च स्वल्पतर नीराऽपि तटिनी प्रावृट् संयोगेन विशालतरुशैलादीन् विघटयत्यामूलतः-अपि च कीटोपि सुरभि कुसुमसंयोगेन सुपर्वणामपि खेलतितमां नितमा मौलिषु तथा चारुणोऽपि सकलंवियन्मण्डलमवगाहते क्षणेनार्कसारथि तया तथा लघुमति रप्ययं मुक्तिविमलः
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy