SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ बापाचनाथ चरित्रम् मुक्तावल्या श्री कल्प व्याख्या-तस्मिन् काले तस्मिन् समये पार्श्वः-अर्हन् पुरुषादानीयः त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा ( स्थित्वा ) त्र्यशीति अहोरात्रान् छद्मस्थपर्याय पालयित्वा किश्चिदनानि सप्ततिवर्षाणि केवलिपर्याय // 308 // पालयित्वा-प्रतिपूर्णानि सप्तति वर्षाणि चारित्रपर्यायं पालयित्वा एक वर्षशतं सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु-अस्यामेवावसर्पिण्या दुष्पमसुषमनामके चतुर्थेऽरके बहुव्यतिकान्ते सति योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः श्रावणशुद्धः तस्य श्रावणशुद्धस्य अष्टमीदिवसे—उपरि सम्मेतनामशैलशिख रस्य आत्मना चतुस्त्रिंशत्तमः मासिकेन भक्तेन–अपानकेन विशाखानक्षत्रे चन्द्रयोगे-उपागते सति पूर्वाहकालसमये-तत्र प्रभो मोक्षगमने पूर्वाह्न एव कालः (प्रलम्बितभुजद्वयः कायोत्सर्गे स्थितत्वात्-भगवान् कालगतः व्यतिक्रान्तो यावत्-सर्वदुःखप्रक्षीणः // 168 // मू-पा-पासस्स ण अरहओ पुरिषादणीयस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विइक्कंताई / तेरसमस्स य वाससयस्स अयं तीस इमे संवच्छरे काले गच्छइ // 169 // व्याख्या-पार्श्वस्य-अर्हतः पुरुषादानीयस्य यावत्-सर्वदुःखप्रक्षीणस्य-द्वादशवर्षशतानि व्यतिक्रान्तानि त्रयोदशमस्य वर्षशतस्य-अयं त्रिंशत्तमः सम्बत्सरः कालो गच्छति // तत्र श्रीपार्श्वनिर्वाणान-पश्चाशदधिकPH वर्षशतद्वयेन श्रीवीरनिर्वाणं-ततश्चाशीत्यधिकनववर्षशतानि व्यतिक्रान्तानि तदा-वाचना ततो युक्तमुक्तं त्रयोदशमशतसम्वत्सरस्यायं त्रिंशत्तमः सम्वत्सरः कालो गच्छतीति-इति श्री पार्श्वनाथचरित्रं समाप्तम् // 169 // // 308 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy