________________ श्रीकल्प मुक्तावल्यां श्रीपाचनाथ चरित्रम् // 30 // क्षीणवीर्यो म्लानवक्त्रो, मेघमाली त्रपाऽन्वितः / धरणेन्द्रोऽपि पूतात्मा, प्रभुपूजां वराशयः // 9 // नाटयादिभि विधायालं, निजस्थानं समाश्रयत् / देवादिविहितानेवं, सहते चोपसर्गकान् // 10 // मू.-पा. तए ण से पासे भगवं अणगारे जाए, इरियासमिए जाब-अप्पाणं भावमाणस्स तेसीइं राईदियाई विइक्कताई, चउरासी इमस्स राइदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थी पक्खेणं पुव्वण्हकालसमयसि घायइपायवस्स अहे, छटेणं भत्तेणं अपाणएणं, विसाहाहिं नक्खत्तेणं जोगमुवागएण, झाणंतरियाए. वट्टमाणस्स अणंते अणुत्तरे जाव-केवलवरनाण-दसणे समुप्पाने जाव जाणमाणे पासमाणे विहरइ // 159 // व्याख्या-ततः स पाश्वों भगवान्-अनगारो जात:-र्यायां समितः यावत्:-आत्मानं भावयतः ज्यशीति अहोरात्रा व्यतिक्रान्ताः चतुरशीतितमस्य अहोरात्रस्य अन्तरावर्त्तमानस्य योऽसौ ग्रीष्मकालस्य प्रथमो मास: प्रथमः पक्षः चैत्रस्य बहुलपक्षः ( कृष्णपक्षः )तस्य चैत्रबहुलस्य चतुर्थीदिवसे पूर्वाहकालसमये (प्रथमप्रहरे ) धातकी नाम वृक्षस्य अधः षष्ठेन भक्तेन अपानकेन (जलरहितेन ) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति ध्यानान्तरिकायां वर्तमानस्य-अनन्ते अनुपमे यावत-केवलवरज्ञानदर्शने समुत्पन्ने यावत्सर्वभावान्-जानन् पश्यश्व विहरति // 159 // मू.-पा. पासस्स णं अरहओ पुरिषादाणीयस्स अट्ठ गणा अट्ठ गणधरा हुत्था / तं जहा-शुभे य अजघोसे य, वसिट्टे बंभयारि य / सोमे सिरिहरे चेव, वीरभद्दे जसेवि य // 1 // // 16 // // 304 //