SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रभुनिर्वाण श्री कल्पमुक्तावल्यां // 295 // इति कोऽर्थः पुस्तके कल्पलेखनस्य हेतुभूतः अयम् यतः श्रीवीरनिर्वाणकालात् दशमशतस्य अशीतितम सम्वत्सरलक्षणः कालो गच्छति / वायणतरे इति कोऽर्थः / एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुन हेतुभूतो दशमशतस्य अयं त्रिनवतितमः सम्बत्सरः // तथा चायमर्थः // नवशताशीतितमवर्षे, कल्पस्य पुस्तके लिखनम् , नवशतत्रिनवतितिमे वर्षे च कल्पस्य पर्षदि वाचनमिति. // तथोक्तं मुनिसुन्दरसूरिभिः // स्वकृतस्तोत्ररत्नकोषे // वीगस्त्रिनन्दाङ्क (993) शरद्यचीकरत् त्वच्चैत्यपूते ध्रुवसेन भूपतिः, यस्मिन्महैः संसदि कल्पवाचना-माद्यां तदानन्दपुरं न कः स्तुते // 1 // पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव वल्लहीपुरंमि नयरे इत्यादिबचनात तत्त्वन्तु केवलिनो जानन्तीति // 14 // / इति श्रीतपागच्छनभोनभोमणिशासनसम्राट्जङ्गमयुगप्रधानकनकाचलतीर्थषोडशीयोद्धारकमहाक्रियोद्धारकसक लभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्टसकलसंवेगिशिरोमणिपन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पंन्याससौभाग्यविमलगणिवरपादारविन्दचश्चरीकायमाणविनेयसकलसिद्धान्तवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पन्यास मुक्तिविमलगणिवरविरचित कल्पमुक्तावलिव्याख्यायां षष्ठमं व्याख्यानं समाप्तमिति // 295 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy